कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 332, कुल 361 में से
संदर्भ में पढ़ेंअस्मिन् कर्मणि नित्यनैमित्तिककाम्येषु “पुनर्मैत्विन्द्रियम्”त्यृचा आत्महृदय- मनुमन्त्रयते । सू० १९ ।—एतेन विधानेन पशवो व्याख्याताः । नित्यनैमित्तिक- काम्याः । पैठीनसिना काम्याः पठिताः । कण्डिका ॥ ४६ ॥ सू० १ ।—अथ अकृते पापे लोके पापवचनमुत्पद्यते तत्र शान्तिरुच्यते । सक्तुमन्थं...भक्तमभिमन्त्र्य ददाति प्रथममग्ने कृत्वा अभ्याख्यातं गृहे प्रवेश्य कर्ता पश्चात्प्रविशति । सू० २ ।—द्रुघणमणिं सम्पात्याभिमन्त्र्य बध्नाति । सू० ३ ।-- पलाशकाष्ठमणिं द्रुघणप्रतिरूपं कृत्वा अभिशस्ते बध्नाति । कृष्णलोहमणिं... ताम्रमयद्रुघणप्रतिरूपमणिं हिरण्यमणिं द्रुघणप्रतिरूपं बध्नाति । सर्वत्रकौशिके कर्मणां विकल्पः । एकस्मिन्विषये यत्र बहूनि कर्माणि पठितानि तत्रैकं कुर्यात् सर्वा- णि वा तन्त्रविकल्पः । सू० ४ । —अथ यागे क्रियमाणे येन कर्मणा विघ्नशमनं भवति तदुच्यते । ऋत्विजो यजमानश्चाशयन्ति अविघ्नेन यज्ञसिद्धिर्भवति । सू० ५ ।—यागसमाप्तौ विघ्नशमनमुच्यते । सोमदेवत्यं चरुं जुहोति । सू० ६ ।—अथ धनधान्यादि प्रतिग्रहादियाचनामिच्छन्निदं कृत्वा याचित- विघातो न भवति । याचितं न प्रतिषेधयति । सारूपवत्सं पायसं सम्पात्याभि- मन्त्र्याश्नाति । सू० ७ ।—अथ कपोते उलूके वा गृहं प्रविष्टे अन्यत्राभीष्टदेशेऽपि तत्र शान्तिरुच्यते । शान्त्युदके आवपते ततो मातलिं कृत्वा शान्त्युदकं समाप्यते रात्रौ तेन शान्त्युदकेन तत्स्थानं प्रोक्षति “यतायै” इत्येतैर्मन्त्रैः कपोतोलूक- स्थानं यावत् । सू० ८ ।--त्रिः शालां परिणयति कपोतस्थानं वा परिभ्रामयेत् । आरण्यके पक्षिणि प्रविष्टे इदं कर्म कुर्यात् । कपोतोलूके वा प्रविष्टे द्विपदचतुष्प- दविनाशो वेदे श्रूयते तस्य दोषशमनम् ॥ सू० ९ ।-- अथ स्वमाध्याये पठिते उग्रे स्वप्नदर्शने शान्तिरुच्यते । स्वमाध्यायपठितदुःस्वप्नं च रुद्रभाष्यकारमतेन गृहीतव्यं । पक्वमांसे प्रेतदर्शने परिष्वङ्गमर्कटे दृष्ट्वा तैलाभ्यङ्गे नग्नपुरुषदर्शने नग्नस्त्रीदर्शने कालसूत्रे इत्यादि स्वमाध्यायपठिता अनेकशः । इति दुःस्वप्नदर्शने शान्तिरुच्यते । स्वप्नं कुत्सितं दृष्ट्वा मुखं प्रक्षालयति ॥ सू० १३ ।—अथ पुनर्धोरदुःस्वप्ननाशनकर्म उच्यते । “विद्मा ते” स्वप्ने इत्येकेन पर्यायेण दुःस्वप्नं दृष्ट्वा मुखं विमार्ष्टि ।•• पार्श्वेन द्वितीयेन भूयते । अन्नं स्वप्ने दृष्ट्वा निरीक्षते । मैश्रधान्यं पुरोडाशं जुहोति । सू० १४ ।—अथ आचार्ये मृते ब्रह्मचारी इदं करोति । श्रेयस्कामः आचार्यदहने । अग्नेर्भूभ्यामित्यादि पञ्च सामिधेनी हुत्वा ततो दहनं त्रिर्आमयित्वा तत “नहि ते अग्ने तन्व” इति सूक्तान्ते पुरोडाशं जुहोति तस्मिन्दहने ॥ सू० १६ ।—कौशिकसूत्रे शयनं न मन्यते च प्रेतादिभयात् तद्विघातशमनं । सू० २७ ।—“अपो दिव्या”इति चतसृभिर्ऋग्भिः स्नानं कृत्वा