कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 340, कुल 361 में से
संदर्भ में पढ़ें४४ अथर्ववेदीय-कौशिकसूत्रस्य— कण्डिका ॥ ५२ ॥ सू० १ ॥—आज्यं जुहोति । समिध आदधाति । पुरोडाशादि योज्यं सर्वत्र । सू० २ ॥—मन्थमभिमन्त्र्य पथिकाय प्रयच्छति स्वस्त्ययनकामः । भक्तमभि- मन्त्र्य भक्षयति । समाप्ता ग्रामदूरगमनस्य शान्तिः । कलहदोषो न भवति । सू० ३ ॥—पुरुषबन्धने मोचनशान्तिरुच्यते “यस्यास्त”—इति चतुर्ऋचेन सूक्तेन येन बद्धः तत्सदृशं सम्पातवन्तं कृत्वा सूक्तसदृशं द्वितीयं च सम्पातवन्तं करोति । यत्ते देवीति तृचेन सूक्तेन निगडयुगलद्वयं च सम्पातवन्तं करोति । “विषाणा- पाशानि”ति चतुर्ऋचेन निगडयुगलद्वयं सम्पात्य एक मुक्तं निगडं चर्ममयं वा लोहमयं वा येन बद्धस्तन्मयं कृत्वा अभ्यातानाद्युत्तरतन्त्रं । समाप्तं बन्धनमोचनं । सू० ४ ।—वाचा वन्धनस्य मोचनमुच्यते । भूमिलेखां सम्पात्य तत उत्तरतन्त्रम् । समाप्तं बन्धनस्वस्त्ययनं बद्धो अनेन कर्मणा कृतेन मुच्यते बन्धनात् । सू० ५ ॥ अग्निदाहरक्षार्थमुच्यते । उदकमभिमन्त्र्य गर्त्ते प्रक्षिपति···उदकपूरणं करोति । सू० ६।—शालामध्ये द्वयो उदकमभिमन्त्र्य गर्त्ते प्रक्षिपति । अग्निरक्षा भवति । सू० ७ ।—अग्न्युपसर्गे एतत्कर्म । सू० ८ ।—आयन इति सूक्तेन दिव्यमभिमन्त्र्य गृह्णाति दिव्ये शुद्धयति तत्समापके दिव्ये । सू० ९ । अङ्गदग्धं उदकमभिमन्त्र्य प्रक्षालयति । अङ्गारोग्यं भवति अङ्गे अग्निरक्षा । समाप्तानि अग्निदाहरक्षाणि । सू० १० ।—नावापैटकपट्टिकादिस्वस्त्ययनार्थोदकतरणार्थो रक्षा उच्यते ॥ नावादि अभि- मन्त्र्य ततश्चटन्ति उपविशन्ति । न कदाचिन्मज्जति क्वचित् । उदकरक्षार्थे दूरदेश गमने ॥ ११॥ सम्पातवतीं तृचेन नावं सम्पात्य । तत उत्तरतन्त्रं । समाप्तं दूरदेश गमने एतत्कर्म । तृचेन नौमणिं सम्पात्याभिमन्त्र्य·· नाविकेभ्यो बध्नाति । ये नावं चटन्ति तेषां बन्धनं । सू० १२ ॥--अथ नष्टे द्रव्ये लाभकर्म उच्यते । उत्थापयति नष्टनिरीक्षणार्थे ॥ सू० १४ ॥—समाप्तं नष्टलाभकर्म ॥ १५ ॥ नमस्कृत्य द्यावा पृथिवीभ्यामित्येकां जपित्वार्थसूक्तं कुर्वीत स्वस्त्ययनकामः । केचित्स्वस्त्ययन कामोपस्थानं···॥ सू० १६ ॥ सप्तप्रतीको अंहोलिङ्गगणः । एकैकस्य प्रतीकस्य होमः । त्रयोदश हविर्भिः प्रतीकविकल्पः । भोजनमभिमन्त्र्य पाययति स्वस्त्ययन- कामः । भक्षं भक्षयति । हविराज्यसमिधादि जुहोति ।···आप्लवनावसेचनाचमनादीनि यथासंभवं कर्त्तव्यानि । पापसंसर्गे व्याधिसंसर्गे वर्णसंसर्गे अन्यस्मिन्पापे स्वस्त्य- यनं । अंहोलिङ्गेन विकल्पेन···हृदयमालभ्य जपं कृत्वा उपस्थानमादित्यस्य कुर्यात् तेनैव सूक्तेन···अभिमर्शनं पुरुषस्य अन्यस्य वा·· वृक्षगृहस्त्रीपुरुषादीनां स्वस्त्य- नं क्रियते । अभिमर्शनं कृत्वा उपस्थानमादित्यस्य कुर्यात् ॥ १७॥ हविरभिमंत्र्य भक्षयति ।···स्वयमभिमंत्रणं करोति स्वयं हविषां भोजनमिति वचनात् ॥ यत्र क्वचिच्छान्तिः क्रियते तत्र सर्वत्र स्वस्त्ययनहोमं कुर्यात् । गृहे नगरे वा बहिर्वा पत्त-