भारतकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 131, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 131

७८ काव्यमीमांसायाम्

व्यालम्बालकवल्लरीकमलिकं कान्ताभिसारोत्सवे यत्सत्यं तमसा मृगाक्षि विहितं वेषे तवाचार्यकम् ॥” इत्यर्थहरणोपाया द्वात्रिंशदुपदर्शिताः । हानोपादानविज्ञाने कवित्वं तत्र मां प्रति ॥ किं चैते हरणोपाया ज्ञेयाः सप्रतियोगिनः । अर्थस्य वैपरीत्येन विज्ञेया प्रतियोगिता ॥ किञ्च—शब्दार्थशासनविदः कति नो कवन्ते यद्वाङ्मयं श्रुतिधनस्य चकास्ति चक्षुः । किन्त्वस्ति यद्वचसि वस्तु नवं सदुक्ति- सन्दर्भिणां स धुरि तस्य गिरः पवित्राः ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे अर्थहरणेष्वालेख्यप्रख्यादिभेदास्त्रयोदशोऽध्यायः ॥

चतुर्दशोऽध्यायः जातिद्रव्यक्रियासमयस्थापना । अशास्त्रीयमलौकिकं च परम्परायातं यमर्थमुपनिबध्नन्ति कवयः स कविसमयः । “नन्वेष दोषः । कथङ्कारं पुनरुपनिबन्धनार्हः ?” इत्याचार्याः । “कविमार्गानुग्राही कथमेष दोषः?” इति यायावरीयः। “निमित्तं तर्हि वाच्यम्” इत्याचार्याः । “इदमभिधीयते” इति यायावरीयः । पूर्वे हि विद्वांसः सहस्रशाखं साङ्गं च वेदमवगाह्य, शास्त्राणि चावबुध्य, देशान्तराणि द्वीपान्तराणि च परिभ्रम्य, यानर्थानुपलभ्य प्रणीतवन्तस्तेषां देशकालान्तरवशेनान्यथात्वेऽपि तथात्वेनोपनि- बन्धो यः स कविसमयः । कविसमयशब्दश्चायं मूलमपश्यद्भिः प्रयोगमात्रदर्शिभिः प्रयुक्तो रूढश्च । तत्र कश्चिदाद्यत्वेन व्यवस्थितः कविसमयेनार्थः, कश्चित्परस्परो- पक्रमार्थं स्वार्थाय धूर्त्तैः प्रवर्त्तितः । स च त्रिधा स्वर्ग्यो भौमः

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक) · पृष्ठ 131, कुल 381 में से · BharatKosha