काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 159, कुल 381 में से
संदर्भ में पढ़ें१०४ काव्यमीमांसायाम् पुष्पक्रिया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु धुरि स्थितानि । सौभाग्यमेणतिलकाद्ब्रजतेऽर्कबिम्बं काले तुषारिणि दहन्ति च चन्दनानि ॥ ५ सिद्धार्थयष्टिषु यथोत्तरहीयमान- सन्तानभिन्नघनसूचिपरम्परासु । द्वित्रावशेषकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ॥ उदीच्यचण्डानिलताडितासु १० १सुलीनमीनासु जलस्य मूले । नालावशेषाब्जलतास्विदानीं विलासवापीषु न याति दृष्टिः ॥ माद्यन्मतङ्गः पृषतैकतोषी २पुष्यद्द्वराहो धृतिमल्लुलायः । १५ दरिद्रनिन्द्यः ३सधनैकवन्द्यः स एष कालः शिशिरः करालः ॥ अभिनववधूरोषस्वादुः करीषतनूनपा- दसरलजनाश्लेषक्रूरस्तुषारसमीरणः । गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रखे- २० र्विरहिवनितावक्त्रौपम्यं बिभर्त्ति निशाकरः ॥ स्त्रियः प्रकृतिपित्तलाः क्वथितकुङ्कुमालेपनै- र्नितम्बफलकस्तनस्थलभुजोरुमूलादिभिः । इहाभिनवयौवनाः सकलरात्रिसंश्लेषितै- र्हरन्ति शिशिरज्वरारतिमतीव पृथ्वीमपि ॥” २५ शिशिरः ॥ “चैत्रे मदद्धिः शुकसारिकाणां हारीतदात्यूहमधुव्रतानाम् । १ V निलीनमीनासु. २ V B & V C पुष्यद्दराहा. ३ V C सधनैकमन्यः.