काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 201, कुल 381 में से
संदर्भ में पढ़ें146 EXPLANATORY NOTES अत्राह—प्रवृत्तिरिति कस्मात् । उच्यते—पृथिव्यां नानादेशवेषभाषाचारवार्ताः ख्यापयतीति प्रवृत्तिः । प्रवृत्तिश्च निवेदने । अत्राह—यदा पृथिव्यां नानादेशाः सन्ति, कथमासां चतुर्विधत्व- मुपपन्नम् । समानलक्षणांश्चासां प्रयोग उच्यते । एवमेष समानलक्षणप्रयोगः । किंतु नानादेशवेष- भाषाचारो लोक इति कृत्वा लोकानुमतेऽनुवृत्तिसंश्रितस्य नाट्यस्य मया चतुर्विधत्वमभिहितं भारत्यारभटी सात्वती कैशिकी चेति । वृत्तिसंश्रितैश्च प्रयोगैरभिरता देशाः । यतः प्रवृत्तिचतुष्टयमभिनिर्वृत्तं प्रयोगश्चोत्पादितः । तत्र दाक्षिणात्या भवेत् बहुगीतनृत्यवाद्या कैशिकीप्राया चतुरमधुर- ललिताङ्गाभिनया । यथा— महेन्द्रो मलयः सह्यो मेकलः पलपिञ्जरः । एतेषु संश्रिता देशाः स ज्ञेयो दक्षिणापथः ॥ कोशलास्तोशलाश्चैव कलिङ्गा एव गोशलाः । द्रविडान्ध्रमहाराष्ट्रा वैण्या वै वानवासजाः ॥ दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे । ये देशास्तेषु युञ्जीत दाक्षिणात्यां तु नित्यशः ॥ आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा । सैन्धवास्त्वथ सौवीराः आनर्तास्त्वार्बुदेयकाः ॥ दशार्णाश्चैपुराश्चैव तथा वै मार्तिका मताः । कुर्वन्त्यावन्तिमेते प्रवृत्तिं नित्यमेव तु ॥ सात्त्वतीं कैशिकीं चैव वृत्तिमेषा समाश्रिता । भवेत्प्रयोगो नान्यत्र स च कार्यः प्रयोक्तृभिः ॥ अङ्गा वङ्गाः कलिङ्गाश्च वत्साश्चैवोड्रमागधाः । पौण्ड्रनैपालिकाश्चैव अन्तर्गिरिबहिर्गिराः ॥ तत्र वङ्गसमा ज्ञेया मलदा मल्लवर्तकाः । ब्रह्मोत्तरप्रभृतयो भार्गवा मार्गवास्तथा ॥ प्राग्ज्योतिषाः पुलिन्दाश्च वैदेहास्ताम्रलिप्तकाः । प्राङ्गाः प्रावृत्तयाश्चैव युञ्जन्ति ह्यौड्रमागधीम् ॥ अन्येऽपि देशा एभ्योपि ये पुराणे प्रकीर्तिताः । तेषु प्रयुज्यते ह्येषा प्रवृत्तिस्त्वोड्रमागधी ॥ पाञ्चालमध्यमायां तु सात्त्वत्यारभटी स्मृता । प्रयोगस्त्वल्पगीतार्थ आविद्धगतिविभ्रमः । पाञ्चालाश्शौरसेनाश्च काश्मीरा हास्तिनापुराः ॥ बाह्लीकाः शाकलाश्चैव मद्रकौशीनरस्तथा । हिमवत्संश्रिता ये च गङ्गायाश्चोत्तरां दिशम् ॥ ये श्रिता वै जनपदास्तेषु पाञ्चालमध्यमा । The verses आर्द्रार्द्रचन्दन and आ मूलतो are quoted in सदुक्तिकर्णामृत (II–86 and 99) under Rājaśekhara. P. 8. l. 23. A reads परिमण्डलितान्तरीयम् instead of परिमण्डलितोत्तरीयम्. P. 9. l. 26. Read "अनन्तानपि हि देशांश्चतुर्धैवैकल्य कल्पयन्ति चक्रवर्तिक्षेत्रं समासेन । तदवान्तरविशेषैः पुनरनन्ता एव" इति यायावरीयः । ]