काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 49, कुल 381 में से
संदर्भ में पढ़ेंSUMMARY. प्रथमोऽध्यायः श्रीकण्ठस्य परमेष्ठिवैकुण्ठादिभ्यश्चतुःषष्टये शिष्येभ्यः काव्यशास्त्रोपदेशः । सार- स्वतकाव्यपुरुषात्काव्यविद्याप्रवृत्तिः । सहस्राक्षादिभ्यो दिव्येभ्यः काव्यविद्यास्नात- केभ्यः काव्यविद्याया अष्टादशाधिकरणोप्रवचनम् । तेषां पृथक्पृथक् स्वशास्त्रविरचनम् । प्रकीर्णत्वात्तेषां किञ्चिदुच्छेदेन ग्रन्थकर्त्रा सङ्क्षेपेणास्य ग्रन्थस्य प्रणयनम्, एतद्ग्रन्था- ध्यायनिर्देशश्च । p. 2 द्वितीयोऽध्यायः शास्त्रं काव्यं चेति वाङ्मयं द्विधा । शास्त्राणां परिसंख्यानं, लक्षणं, सूत्रादि- भिश्चैषां प्रणयनम् । वृत्तिपद्धतिभाष्यसमीक्षाटीकापञ्जिकाकारिकावार्तिकानीति शास्त्रभेदाः, तेषां व्याख्याश्च । साहित्यविद्याया व्याख्या । p. 5 तृतीयोऽध्यायः सरस्वत्याः पुत्रेच्छा । स्वयम्भूवरदानम् । सरस्वत्याः काव्यपुरुषोत्पत्तिः । तस्य छन्दस्त्वागुच्चारणम् । काव्यपुरुषस्य स्तुतिर्वर्णनं च । सारस्वतेयस्य उशनसे बाल्मी- कये च छन्दस्त्वाक्सञ्चारणम् । काव्यपुरुषस्य सरस्वत्या ब्रह्मलोकेऽनुगमनम् । तन्निवर्तनाय तद्वशीकरणार्थं साहित्यविद्यावधूत्पादनं, तस्यै काव्यपुरुषानुवर्तनाय, का- व्यविद्यास्नातकेभ्यश्चैतयोः चरितस्तवनायादेशः । प्रथमं प्राचीं प्रति चलनम् । तत्र काव्यपुरुषमभियुञ्जाना सा औमेयी यं वेषं यथेष्टमसेविष्ट स तत्रत्याभिः स्त्रीभिरनुकृतः । सा औड्रमागधीप्रवृत्तिः । गौडाङ्गनावेषवर्णनम् । तयोरनुसारेण भारतीवृत्तिगौडीरीत्योः प्रादुर्भावः । ततः पाञ्चालान् प्रति चलनम् । पाञ्चालमध्य- मप्रवृत्तिसात्वतीवृत्तिपाञ्चालीरीतीनां प्रादुर्भावः । ततोऽवन्तीं प्रति चलनम् । तद्वेषध्यानानुसारेण आवन्तीप्रवृत्तिसात्वतीकैशिकीवृत्तीनां प्रादुर्भावः । ततो दक्षिणां प्रति चलनम् । तत्र दाक्षिणात्याप्रवृत्तिकैशिकीवृत्तिवैदर्भीरीतीनां प्रादुर्भावः । सम्पू- र्णतया च काव्यपुरुषस्य वशीकरणम् । विदर्भेषु वत्सगुल्मे तयोर्गान्धर्ववत्परि- णयनम् । ततो विनिवृत्य तेषु प्रदेशेषु विहृत्य तुषारगिरिर्गमनम् । गौरीसरस्वतीभ्यां वन्दनम् । तयोराशीर्वादेन कविमानसनिवासकरणं कविलोकस्वर्गसर्गश्च । p. 10