काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 75, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये षष्ठोऽध्यायः । २१ मध्यममन्ते स्वादु सहकारपाकम्, आदावुत्तममन्ते चास्वादु क्रमुक- पाकम्, आदावुत्तममन्ते मध्यमं त्रपुसपाकम्, आद्यन्तयोः स्वादु नालिकेरपाकमिति । तेषां त्रिष्वपि त्रिकेषु पाकाः प्रथमे त्याज्याः । वरमकविर्न पुनः कुकविः स्यात् । कुकविता हि सोच्छ्वासं मरणम् । मध्यमाः संस्कार्याः । संस्कारो हि सर्वस्य गुणमुत्कर्षति । द्वादशव- ५ र्णमपि सुवर्णं पावकपाकेन हेमीभवति । शेषा ग्राह्याः । स्वभावशुद्धं हि न संस्कारमपेक्षते । न मुक्तामणेः शाणस्तारतायै प्रभवति । अन- वस्थितपाकं पुनः कपित्थपाकमामनन्ति । तत्र पलालधूननेन अन्न- कणलाभवत्सुभाषितलाभः । सम्यगभ्यस्यतः काव्यं नवधा परिपच्यते । १० हानोपादानसूत्रेण विभजेत्तद्धि बुद्धिमान् ॥ अयमत्रैव शिष्याणां दर्शितस्त्रिविधो विधिः । किन्तु वि(त्रि)विधमप्येतत्त्रिंजगलस्य(?) वर्त्तते ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे शिष्यविशेषेषु काव्यपाककल्पः पञ्चमोऽध्यायः ॥ १५ षष्ठोऽध्यायः पदवाक्यविवेकः । व्याकरणस्मृतिनिर्णीतः शब्दो निरुक्तनिघण्ट्वादिभिर्निर्दिष्टः। तद- भिधेयोऽर्थः। तौ पदम्। तस्य पञ्च वृत्तयः-सुब्वृत्तिः, समासवृत्तिः, तद्धितवृत्तिः कृद्वृत्तिः, तिङ्वृत्तिश्च । गौरश्वः पुरुषो हस्तीति जाति- वाचिनः शब्दाः । हरो हरिर्हिरण्यगर्भः काल आकाशं दिगिति २० द्रव्यवाचिनः । श्वेत्तः कृष्णो रक्तः पीत इति च गुणवाचिनः । प्राद्- यश्चादयश्चासत्त्ववचनाः । नगरमुप प्रस्थितः पन्थाः, वृक्षमन्व द्योतते विद्युदिति कर्मप्रवचनीयाः । “सेयं सुब्वृत्तिः पञ्चतथ्यपि वाङ्मयस्य माता” इति विद्वांसः । सुब्वृत्तिरेव समासवृत्तिः । व्याससमासा- १ B हारो. २ B त्रिभ्य···वर्त्तते. ३ B निर्घण्टादिभिः.