भारतकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 81, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 81

“कः ? । वाग्योगविदेव । कुत एतत् ? । यो हि शब्दाज्ञानादपश- ब्दानप्यसौ जानाति । यथैव हि शब्दज्ञाने धर्म एवमपशब्दज्ञानेऽप्य- धर्मः । अथवा भूयानधर्मः प्राप्नोति । भूयांसो ह्यपशब्दा अल्पीयांसः शब्दाः । एकैकस्य हि शब्दस्य बहवोऽपभ्रंशाः । तद्यथा गौरि- त्यस्य शब्दस्य गावी गोणी गोता गोपोतलिकेत्येवमादयोऽपभ्रंशाः । अथ योऽवाग्योगवित् अज्ञानं तस्य शरणम् । नात्यन्तायाज्ञानं शरणं भवितुमर्हति । यो ह्यजानन्वै ब्राह्मणं हन्यात्सुरां वा पिबे- त्सोऽपि, मन्ये पतितः स्यात् । एवं तर्हि सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैः । कः ? । अवाग्योगविदेव । अथ यो वाग्योगवित् विज्ञानं तस्य शरणम् । क पुनरिदं पठितम् ? । भ्राजा नाम श्लोकाः । किञ्च भोः श्लोका अपि प्रमाणम् ? । किञ्चातः ? । यदि प्रमाणमयपि श्लोकः प्रमाणं भवितुमर्हति— ‘यद्यु(दु)दुम्बरवर्णानां घटीनां मण्डलं महत् । पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत् ॥’ इति । प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणमेव” इति गोनर्दीयः । लौकिकः—‘‘गुणानुरागमिश्रेण यशसा तव सर्पता । दिग्वधूनां मुखे जातमकस्मादर्द्रकुङ्कुमम् ॥’’ “असदुपदेशकत्वात्तर्हि नोपदेष्टव्यं काव्यम्” इत्यपरे। यथा एवं— “वयं बाल्ये डिम्भास्तरुणिमनि यूनः परिणता- वपीच्छामो वृद्धानपरिणयविधेस्तु स्थितिरियम् । त्वयाऽऽरब्धं जन्म क्षपयितुममार्गेण किमिदं न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत् ॥” “अस्त्ययमुपदेशः । किन्तु निषेध्यत्वेन न विधेयत्वेन” इति याया- वरीयाः । य एवंविधा विधयः परस्त्रीषु पुंसां सम्भवन्ति तानवबु-


१ C दुष्यति अपशब्दैः कः ? । B कः । अवाग्योगवित् । अथ वाग्योगवित् १ ज्ञानं तस्य शरणम् । नात्यन्ताय ज्ञानं भवितुमर्हति । योऽह्यजानन् ब्राह्मणं हन्यात् सुरां वा पिबेत् सोऽपि मन्ये पतितः स्यात् । एवं तर्हि सोऽनन्तमाप्नोति । किञ्चातः । यतः यदि प्रमाणमयपि श्लोकः प्रमाणं भवितुमर्हति । क पुनरिदं पठितमित्याचार्याः । भ्रान्ता नाम श्लोकास्तेष्विति गोनर्दीयः । किञ्च भोः श्लोक एव प्रमाणम् । तदनेनापि प्रमाणेन भवितव्यमित्याचार्याः “यद्युदुम्बरवर्णानां घटीनां मण्डलं महत् । पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत्” प्रमत्तगीतमेतद्भगवतो यस्त्वप्रमत्तगीतं तत्प्रमाण- मेवेति गोनर्दीयः ॥