काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
DevanagariSanskritpublished616 पृष्ठ
पृष्ठ 477, कुल 616 में से
संदर्भ में पढ़ेंपृष्ठ 477
‘धुनोति चासिं तनुते च कीर्तिम्’ इत्यादेः ‘कृपाणपाणिश्च भवान् रणक्षितौ ससाधुवादाश्च सुराः सुरालये’ इत्यादेश्च दर्शनात् ‘व्यधिकरणे’ इति ‘एकस्मिन् देशे’ इति च न वाच्यम् ॥११६॥ एकं क्रमेणानेकस्मिन् पर्यायः ॥ एकं वस्तु क्रमेणानेकस्मिन् भवति क्रियते वा स पर्यायः । क्रमेणोदाहरणम्— नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥५१३॥