काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
DevanagariSanskritpublished616 पृष्ठ
पृष्ठ 505, कुल 616 में से
संदर्भ में पढ़ेंपृष्ठ 505
अस्य धुरं सुतरामुपमेयमेव वोढुं प्रौढमिति कैमर्थ्येन यत् उपमानमाक्षिप्यते यदपि तस्यैवोपमानतया प्रसिद्धस्य उपमा- नान्तरविवक्षयानादरार्थमुपमेयभावः कल्प्यते तत् उपमेयस्योप- मानप्रतिकूलवर्तित्वात् उभयरूपं प्रतीपम् । क्रमेणोदाहरणम्— लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमदो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥५५३॥ एएहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिज्जं । तुब्झ मुहेण किसोअरि चंदो उअमिज्जइ जणेण ॥५५४॥