काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 607, कुल 616 में से
संदर्भ में पढ़ेंL KĀVYAPRAKĀŚA निर्वेदस्थायिभावोस्ति शान्तोपि नवमो रसः । 35a निषेधो वस्तुमिष्टस्य यो विशेषाभिधित्सया ॥ 106b निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाऽश्लीलम् ॥ 50b न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ॥ 53b पदानां सः पदस्यापि वृत्तावन्यत्र तत्र वा । 82a पदैकदेशरचनावर्णेष्वपि रसादयः । 43a परिवृत्तिर्विनिमयो योर्थानां स्यात् समासमैः ॥ 113b परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिर्निदर्शना । 97a पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः । 115a पुनरुक्तवदाभासो विभिन्नाकारशब्दगा । 86a प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः । 96a प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम् । 53a प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः । 61a प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया । 129a प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः । 114a प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा । 39a प्रयोजनेन सहितं लक्षणीयं न युज्यते ॥ 17b प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ॥ 121b प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभानुषाम् । 22a प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ 99b प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया । 134a प्रौढोक्तिमात्रसिद्धो वा कवेस्तेनोम्भितस्य वा । 40a फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया । 15a बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च । 70a बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ 29b भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा । 55a भावः प्रोक्तस्तदाभासा अनौचित्यप्रवर्तिताः । 36a भावस्य शान्तिरुदयः सन्धिः शबलता तथा ॥ 36b भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः । 124a भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः ॥ 26b भेदाभावात्प्रकृत्यादेर्भेदोपि नवमो भवेत् । 85a भेदाविमौ च सादृश्यात् सम्बन्धान्तरतस्तथा । 12a भेदास्तदेकपञ्चाशत्तेषां चान्योन्ययोजने ॥ 43b