काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 609, कुल 616 में से
संदर्भ में पढ़ेंवक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् । 77a वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः । 107a वर्णसाम्यमनुप्रासश् छेकावृत्तिगतो द्विधा । 79a वर्णाः समासो रचना तेषां व्यञ्जकतांमिताः ॥ 73b वस्तु तद् गुणतामेति भण्यते स तु तद्गुणः ॥ 137b वस्तुनोर्जननेन्योन्यमुत्तरश्रुतिमात्रतः । 121a वस्तु वालंकृतिर्वेति षड्भेदोसौ व्यनक्ति यत् ॥ 40b वस्त्वलंकारमथवा तेनायं द्वादशात्मकः । 41a वाक्ये द्व्यूत्थः पदेप्यन्ये प्रबन्धेप्यर्थशक्तिभूः ॥ 42b वाक्येपि दोषाः सन्त्येते पदस्यांशेपि केचन ॥ 52b वाच्यभेदेन भिन्ना यद् युगपद् भाषणस्पृशः । 84a वाच्यादयस्तदर्थाः स्युस्तात्पर्यार्थोपि केषुचित् ॥ 6b वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि । 89a विज्ञेयातिशयोक्तिः सा प्रतिवस्तूपमा तु सा ॥ 101b विध्यनुवादायुक्तव्यक्तपुनःस्वीकृतोश्लीलः ॥ 57b विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः । 135a विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतरः । 113a विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः । 28a विरोधः सोविरोधेपि विरुद्धत्वेन यद्वचः । 110a विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः । 25a विषयद्यन्तःकृतेन्यस्मिन् सा स्यात्साध्यवसानिका ॥ 11b विशिष्टे लक्षणा नैवं विशेषाः स्युस्तु लक्षिते ॥ 18b विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ 131b विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः । 118a विशेषोक्तिरखण्डेषु कारणेषु फलावचः । 108a वेदखाब्धिवियच्चन्द्राः शरेषुयुगखेन्दवः ॥ 44b व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः ॥ 28b व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः । 46a व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने । 13a व्यभिचारिरसस्थायिभावानां शब्दवाच्यता । 60a व्यवस्थितं च तेनासौ त्रिरूपः परिकीर्तितः ॥ 141b व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा । 112a व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् ॥ 118b