भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 111, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 111

सर्गः ] घण्टापथ-सुधान्याख्याद्वयोपेतम् ७३

वाक्यान्तरम्—परैः, अवगीताम्, इमां दशां गमिते त्वयि, सुरैरपि सम्भावित-वृत्तिना पौरुषेण यत् अवसाद्यते, अतः परं केन विधुरेण ( भूयते ) ॥ ७ ॥

कोषः—'अवगीतं क्यातगर्हणः' इत्यमरः । 'अवगीतं तु निर्बादे मुहुर्मुहुश्च गर्हिते' इति विश्वः । 'दशाऽवस्थाऽनेकविधा' इत्यमरः । 'अमरा निर्जरा देवास्त्रिदशा विबुधाः सुरा' इत्यमरः । 'पुम्भावे शक्तिकार्यायां च पौरुषम्' इत्यमरः ॥ ७ ॥

सारार्थः—यस्य नाम शक्तिर्नास्ति, तादृशश्चेद्वैरिभिः पीड्यते तर्हि तद्युक्तमेव, यतस्तत्प्रतीकारकरणसामर्थ्यं चाशक्ते जने न भवति । परन्तु भवान् पराक्रमाधिक्यजनचर्च्यवसरे देवैरपि गीयते, 'यत्पाण्डवैः सह योद्धुं वयमपि न शक्नुमः' एवम्भूतोऽपि यच्छत्रुभिः पीड्यते भवान्, तस्मादतोऽधिकं न हि दृश्यते अद्भुतं कष्टम् ॥ ७ ॥

भाषार्थः—शत्रुओं द्वारा ऐसी गिरी हालत में पड़ा हुआ, देवताओं से भी प्रशंसित आपका जब पुरुषार्थ ही चौपट हो रहा है तो इससे बढ़कर और क्या कष्ट ( क्लेश ) होगा ? ॥ ७ ॥

अथोपेक्षाकालस्यादियमुपेदेत्याशङ्क्य नाऽयमुपेक्षाकाल इति वक्तुं तदेव तावच्छ्लोकद्वयेन विविनक्ति—

द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः ।
न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ॥ ८ ॥

द्विषतामिति । भूतिमुदयमिच्छता । शोभना मेधा यस्य तेन सुमेधसा सुधिया । 'नित्यमसिच्प्रजामेधयोः' इत्यसिच्प्रत्ययः गुरुर्महानप्यस्वन्ततरोऽत्यन्तदुरन्तः । क्षयोन्मुख इत्यर्थः । द्विषतामुदयो वृद्धिः सुखेन मृष्यत इति सुमर्षणः सुसहः । उपेक्ष्य इत्यर्थः । स्वन्तश्छेद् दुर्मर्षज इति भावः । 'आषाद्यां णहसि' इत्यादिना खलर्थे युच्प्रत्ययः । 'महानपि फलसम्पत्प्रवणः फलसम्पदुन्मुखः 'यजिरन्तर्-' इत्यादिना णत्वम् । परिक्षयो न सुमर्षणः । नोपेक्ष्य इत्यर्थः । अन्यथा तूपेक्ष्य इति भावः । न ह्युदयः एव प्रतिकार्यो न च क्षयएवोपेक्ष्यः किन्तु स्वन्तत्वास्वन्तत्वाभ्यामुभावपि प्रतिकार्यावुपेक्ष्यौ च भवत इत्यर्थः ॥ ८ ॥

अन्वयः—भूतिम् इच्छता सुमेधसा गुरुः अस्वन्ततरः द्विषताम् उदयः सुमर्षणः ( भवति ), महान् अपि फलसम्पत्प्रवणः न ( सुमर्षणः भवति ) ॥ ८ ॥

सुधा—भूतिम् = विभूतिम्, ऐश्वर्यमित्यर्थः । इच्छता = अभिलषता, सुमेधसा = सुबुद्धिना, अनेनेति शेषः । गुरुः = महान्, समधिक इति वा, अस्वन्ततरः = दुःखावर्कः क्षयोन्मुख इत्यर्थः । द्विषतां = शत्रूणाम्, उदयः = अभ्युदयः, सम्पदिति वा । सुमर्षणः = सुसहः भवति । वैरिणामभ्युदय इति चेत् स एव स्वल्प एव भवति धीयमान इत्यर्थः । अथ, महान् = विशेषः अपि, फलसम्पत्प्रवणः = फलसमृद्धयाभिमुखः परिक्षयः = स्वल्पोदयः, न = न हि, सुमर्षणः = सहः भवति ।