किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 123, कुल 707 में से
संदर्भ में पढ़ेंसर्गः ] घण्टापथ-सुधाव्याख्योपेतम् । [ ८५
वाच्यान्तरम्—हे जननाथ ! द्विषता विहितमात्मनः पदं यदि त्वं लप्स्यसि तदा तवानुजन्मनाम् आविष्कृतपौरुषा भुजा बलं ( व्यर्थाः ) एवेति ॥ १७ ॥
कोषः—'रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः' इत्यमरः । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । 'जघन्यजे स्युः कनिष्ठयवीयोजवरजानुजाः' इत्यमरः । 'भुजबाहू प्रवेष्ठो दोः' इत्यमरः ॥ १७ ॥
भावार्थः—यदि वनवासावधिसमयेऽतीते दुर्योधनेन समर्पितमपि राज्यं युद्धं विना भवान् लब्ध्वा महाराजो भविष्यति, तदा सर्वत्रास्माकं शौर्यताप्रकाशनं सम्भविष्यति, परन्तुधुनाऽपि ससुरासुरनरा जानन्ति यत्पाण्डवसमाना न सन्ति केऽपि वीरास्त्रिलोक्यामिति ख्यातिमिथ्यैव भवेत् । पाण्डवा अपि परप्रदत्तपिण्डभोजिन एवेति दुर्यशोवितानं विततं स्यात् ॥ १७ ॥
भाषार्थः—एक तो वह दुर्योधन लौटावेगा ही नहीं, यह जानता हूँ, पर तो भी थोड़ी देर के लिये मैं मान लेता हूँ कि अगर आप अपने दुश्मनों से लौटाये हुये राज्य को पावेंगे भी तो महाराज ! आपके भाइयों की भुजाओं का बल बरबाद हो जायेगा ॥ १७ ॥
ननु साम्नैव कार्यसिद्धौ किं दानेन ? यथाह—मनु—'साम्ना दानेन भेदेन समस्तैरथवा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥' इति । तन्किमाक्रन्दनेत्याशङ्कयाह—
मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयते स्वयं हतैः ।
लघयन् खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः ॥ १८ ॥
मदेति । मृगाधिपः सिंहो मदसिक्तमुखैः मदवर्षिभिरित्यर्थः । स्वयं स्वेनैव हतैः करिभिर्वर्तयते वृत्तिं करोति । जीवतीत्यर्थः । भौवादिकाद् वृत्तेर्लट् । सौत्रादिकस्य तु 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदनियमादिति । तथाहि—तेजसा प्रभावेण । 'तेजो बले प्रभावे च ज्योतिर्वीर्येऽग्नि रेतसि' इति वैजयन्ती । जगल्लघयंल्लघु कुर्वन्महान्तेजस्व्यन्यतोऽन्यस्मात्पुरुषात् मूर्तिं वृद्धिं नेच्छति खलु । नहि तेजस्विनः परायत्तवृत्तित्वं युक्तम् । मनुवचनं त्वशूरविषयमिति भावः । विशेषेण वक्तव्यसामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ १८ ॥
अन्वयः—मृगाधिपः, मदसिक्तमुखैः स्वयं, हतैः, करिभिः, वर्तयते । तेजसा, जगत्, लघयन्, महान्, अन्यतः, अन्यतः, मूतिम्, न इच्छति ॥ १८ ॥
सुधा—मृगाधिपः = केशरी, सिंह इत्यर्थः । मदसिक्तमुखैः = दानवारिक्लिन्नवदनैः, गण्डस्थलनिःसृतमदजलवाछितकपोलसन्धिभिरित्यर्थः । स्वयम् = आत्मना, हतैः = मारितैः, करिभिः = गजैः हस्तिभिरित्यर्थः वर्तयते = वृत्तिं कुरुते, स्वयमयमेव हस्तिनं हत्वा, न तु दुर्बलं हस्तिनमपि हन्त्री सिंहः कृत्वा निर्वतयति । तथा