किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 141, कुल 707 में से
संदर्भ में पढ़ेंसर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। १०३
**समासः—**मतेर्भेदो मतिभेदः मतिभेदस्तम इवेति मतिभेदतमः, तेन मतिभेद- तमसा तिरोहितम्, इति मतिभेदतमस्तिरोहितम्, तस्मिन् मतिभेदतमस्तिरोहिते । कृत्यस्य विधिः कृत्यविधिस्तस्मिन् कृत्यविधौ । विवेकोऽस्त्येषामिति विवेकिनस्तेषां विवेकिनाम् ॥ ३३ ॥
**व्याकरणम्—**कुरुते = कृ + लट् + त ॥ ३३ ॥
**भाषान्तरम्—**मतिभेदतमस्तिरोहिते विवेकिनां कृत्यविधौ सुकृतेन परिशुद्धेन वाग्मयेन दीपेनेवार्थदर्शनं क्रियते ॥ ३३ ॥
कोषः—'मतिभेदो भ्रमो भ्रान्तिर्निश्चय इतीष्यते' इति कोषान्तरम् । 'ध्वान्तं तमिस्रं तिमिरं तमः' इत्यमरः । 'कलिलं गहनं समे' इत्यमरः । 'दीपकः प्रदीप्त आख्यातः' इति कोषः ॥ ३३ ॥
**सारार्थः—**मन्दबुद्धीनां सन्देहरूपान्धकारयुक्ते दुर्ज्ञेये नीतिशास्त्रविषयेऽपि सुप्रसिद्धो- ऽभियुक्तं नीतिशास्त्रं तदाचरणस्याशयं प्रकटयति । तथैव अन्धकारवति दुर्ज्ञेये गृहे प्रकाशकरस्य दीपस्य साहाय्येनावलोकनशीलस्यापि पदार्थदर्शनं सञ्जा- तञ्चैव ॥ ३३ ॥
**भाषार्थः—**जैसे अन्धकारवाले घर में अच्छी तरह से तैल-बत्तीवाला दीप पदार्थ को दिखाता है, वैसे ही सन्देहरूप अन्धकारयुक्त एवं दुर्ज्ञेय कठिन समझने के योग्य नीतियों के कार्य-पक्ष में अच्छी तरह से अभ्यास किया हुआ नीतिशास्त्र दीपक के समान अभिप्राय समझाता है ॥ ३३ ॥
एवं विदुरथ कुर्वतो दैवादयथाप्तिमोऽपि न कश्चिदपराध इत्याह—
स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः ।
विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः ॥ ३४ ॥
स्पृहणीयेति । स्पृहणीयगुणैर्निरवद्याभ्युदयैर्महात्मभिः । सभ्यैश्चरितेऽभ्युदितैः वर्त्मन्याचारे मनो यच्छतां नियमयतां सम्यगेव व्यवहरतामित्यर्थः । विधिहेतु- र्दैवनििमत्तः । 'विधिर्विधाने दैवे च' इत्यमरः । अत एवागसामपराधानामहेतुरवि- निपातो दैविकावद्योऽपि । 'विनिपातोऽवपाते स्याद् दैवोत्थितव्यसनेऽपि च' इति विश्वः । समुन्नतेरतिवृद्धेः समस्तुल्यः । दैविकेषु पुरुषस्यापुंस्त्वादप्रमादादिति भावः । तथाह कामन्दकः—'यस्तु सम्यगुपक्रान्तं कार्यमेति विपर्ययम् । पुरुषस्तत्र नाभ्यर्च्यो दैवान्तरितपौरुषः ॥' इति ॥ ३४ ॥
**अन्वयः—**स्पृहणीयगुणैः, महात्मभिः, चरिते, वर्त्मनि, मनः, यच्छताम्, विधि- हेतुः, आगसाम् अहेतुः, विनिपातः, समुन्नतेः, समः (भवति) ॥ ३४ ॥
**सुधा—**स्पृहणीयगुणैः = अनुकरणीयगुणैः सर्वैषां प्रशंसनीयकल्याणैरिति यावत् । महात्मभिः = महानुभावैः, महद्भिरित्यर्थः । चरिते = अनुष्ठिते, प्रचारिते इति यावत् । वर्त्मनि = मार्गे, मनः = चेतः, यच्छताम् = नियमयताम्, यथावद्विदधताम् ।