किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 143, कुल 707 में से
संदर्भ में पढ़ेंसर्गः ] घण्टापथ-सुधाव्याख्योपेतम् १०५
**अन्वयः—**विजितक्रोधरयाः, जिगीषवः, गरीयसीम्, अदूषितायतिम्, फलनिष्पत्तिम्, विगणय्य, पौरुषम्, शिवम्, औपयिकम्, नयन्ति ॥ ३५ ॥
**सुधा—**विजितक्रोधरयाः=हतकोपवेगाः, शान्ता इत्यर्थः । जीगीषवः=जयाभिलाषिणः माहशाः । न तु भवादृशाः क्रोधोद्धता इति भावः । गरीयसीम् = महीयसीम्; महत्तरामिति यावत् । अदूषितायतिम् = परिपूर्णपरिणाम्, सुखोदर्कमिति यावत् । फलनिष्पत्तिम् = फलसिद्धिम्, विगणय्य = विचार्य, शिवम्=कल्याणकरम्, औपयिकम् = उपायसाध्यम् पौरुषम्=पुरुषकारम्, उद्योगमिति यावत्, नयन्ति प्रापयन्ति । न हि सन्दिग्धफले कार्ये विचारशीला लगन्तीति ॥ ३५ ॥
**समासः—**फलस्य निष्पत्तिस्ताम् फलनिष्पत्तिम् । न दूषिता, अदूषिता, अदूषिता आयतिर्यस्याः सा, अदूषितायतिस्तामदूषितायतिम् । क्रोधस्य रयः क्रोधरयः, विजितः क्रोधरयो यैस्ते विजितक्रोधरयोः । जेतुमिच्छवो जिगीषवः ॥ ३५ ॥
**व्याकरणम्—**विगणय्य = वि + गण् + णिच् + क्त्वा + ल्यप् । नयन्ति = नी + लट् ॥ ३५ ॥
**वाच्यान्तरम्—**विजितक्रोधरयैर्जिगीषुभिः गरीयसीमदूषितायतिम्, फलनिष्पत्तिम् विगणय्य शिवम् औपयिकम्, नीयते ॥ ३५ ॥
कोषः—'भ्रःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्' इत्यमरः । 'उत्तरः काल आयतिः' इत्यमरः ॥ ३५ ॥
**सारार्थः—**ये विजयाभिलाषिणो मनीषिणः सन्ति, ते स्वभ्युदयस्य बाधकं क्रोधं पूर्वमेव विजित्य यस्य परिणामे मधुरं सुखं, लाभोऽपि महान्, तादृशमेवोद्योगं कुर्वन्ति । नहि ईश्वरसाहाय्याशया किमप्यनिश्चितं फलं कर्मेति ॥ ३५ ॥
**भाषार्थः—**जीतने की इच्छा रखनेवाले लोग पहले क्रोध के वेग को जीतकर पीछे जिस काम में अधिक लाभ और परिणाम में विशेष सुख समझते हैं, ऐसे कल्याणकारक तथा उपायसाध्य उद्योग को करते हैं। अन्धाधुन्ध किसी असाध्य, अनिश्चितफल और परिणाम में क्लेशप्रद काम नहीं करते ॥ ३५ ॥
यदुक्तं विजितक्रोधरया इति तदावश्यकमित्याह—
अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः ।
अविभिद्य निशाकृतं तमः प्रभया नांशुमताऽप्युदीयते ॥ ३६ ॥
अपनेयमिति । उदेतुमभ्युदेतुमिच्छता राज्ञा पुरः प्रथमं रोषमयं रोषादागतम् । ‘मयट् च’ इति मयट् । तिमिरमज्ञानं धिया विवेकबुद्ध्या करणेनापनेयमपनोद्यम् । तथाहि । अंशुमताऽपि कर्त्रा प्रभया तेजसा करणेन निशाकृतं तमो ध्वान्तमविभिद्य नोदीयते । किन्तु विभिद्यैवेत्यर्थः । सूर्यस्याप्येवं किमुतान्वेषामित्यपिशब्दार्थः । इणो भावे लट् ॥ ३६ ॥