किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 185, कुल 707 में से
संदर्भ में पढ़ेंअथ तृतीयः सर्गः
अथ त्रिभिर्मुनिं विशिषंश्चतुर्भिः कलापकमाह-तदुक्तम्-'द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात्तदूर्ध्वं कुलकं स्मृतम् ।।' इति—
ततः शरच्चन्द्रकराभिरामैरुत्सर्पिभिः प्रांशुमिवांशुजालैः ।
विभ्राणमानीलरुचं पिशङ्गीर्जटास्तडित्वन्तमिवाम्बुवाहम् ॥ १ ॥
तत इति ॥ तत उपवेशनानन्तरं धर्मात्मजो युधिष्ठिरः। शरच्चन्द्रकराभिरामैः। आह्लादकैरित्यर्थः। उत्सर्पिभिरूर्ध्वं प्रसारिभिरंशुजालैः प्रांशुमुन्नतमिव स्थितमित्युत्प्रेक्षा । पुनरानीलरुचं कृष्णवर्णं पिशङ्गीः पिङ्गलवर्णाः गौरादित्वान्ङीष् । जटाः विभ्राणं धारयन्तमत एव तडित्वन्तं विद्युद्युक्तमम्बुवाहमिव स्थितमित्युत्प्रेक्षा ॥१॥
अन्वयः—ततः शरच्चन्द्रकराभिरामैः, उत्सर्पिभिः, अंशुजालैः प्रांशुम इव, आनीलरुचम्, पिशङ्गीः, जटाः, विभ्राणं (तं) तडित्वन्तम्, अम्बुवाहम् इव स्थितं युधिष्ठिरं आवभाषे) इति चतुर्थश्लोकेन सम्बन्धः ॥ १ ॥
व्याख्या—ततः = उपवेशनानन्तरम्, शरच्चन्द्रकराभिरामैः = शरदृतुकचन्द्रकिरणवन्मनोहरैः, उत्सर्पिभिः, उपरि प्रसरणशीलैरिति यावत्। अंशुजालैः=किरणसमूहैः, प्रांशुम् = उन्नतम्, इव स्थितम्, पुनः आनीलरुचं = कृष्णवर्णम्, पिशङ्गीः = पीतवर्णाः, जटाः = संयमितकेशविशेषाः, विभ्राणं = दधानं, तं व्यासं, तडित्वन्तं=विद्युत्सन्वितम्, अम्बुवाहं = जलधरम्, मेघमिवेति यावत्। वर्तमानं युधिष्ठिरः, आवभाषे=उवाच ॥ १ ॥
समासः--शरदः (आश्विनकार्तिकयोः) यश्चन्द्रः, स शरच्चन्द्रः, तस्य ये करास्ते शरच्चन्द्रकरास्त इव अभिरामा यैः तैः शरच्चन्द्रकराभिरामैः। अंशूनां जालानि, तैरंशुजालैः। आ समन्ताद्भावेन नीला रुग् यस्य तमानीलरुचम्, अम्बूनि वहतीति अम्बुवाहः ॥ १ ॥
व्याक०—विभ्राणम्=भृ + लट् + शानच् । उत्सर्पिभिः=उत् + सृप् + णिनिः ॥
वाक्यान्तरम्—शरच्चन्द्रकराभिरामैरंशुजालैः प्रांशुरिव स्थितिः आनीलरुक् पिशङ्गी जटा विभ्राणो व्यासः तडित्वान् अम्बुवाह इव युधिष्ठिरेणावभाषे ॥ १ ॥
कोषः—'सुन्दरो रुचिरश्चारुरभिरामो मनोहर' इति कोषः । 'स्युः प्रभा रुग्रुचिस्त्विट्भाभाश्छविद्युतिदीप्तय' इत्यमरः । 'अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहक' इत्यमरः ॥ १ ॥
२ कि० तृ०