भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 199, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 199

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १५

यावत् । वः युष्मान्, पाण्डवानिति भावः । वृथा = अकारणमेव, वा = पक्षान्तरे, बलात् = सहसा, अविचिन्त्यैवेत्यर्थः । त्यक्तवान् = जहौ, सः विषयाभिलापः = रूपादिभोगेच्छाऽऽत्मकः, मोहं = भ्रमं, विधत्ते = करोति । अर्थात् स्वार्थपरता वा भोगाभिलापाऽपि कर्त्तव्यमार्गेऽन्धकाररूपेणागत्य किं न कर्त्तव्यमिति ज्ञाननिश्चयस्यावलोकनप्रथां करोतीत्यर्थः ॥ १३ ॥

समासः—विषयाणामभिलाषो विषयाभिलापः ॥ १३ ॥

व्याकरणम्—त्यक्तवान् = त्यज् + क्तवतु । विधत्ते = वि + धा + लट् ॥ १३ ॥

वाच्यान्तरम्—युष्माभिः किमु तस्य राज्ञः सुतैर्न भूयते । वा युष्माभिः सुयोधनोगुणैर्नातीत: । येन यूयं वृथा त्यक्ताः । विषयाभिलाषेण मोहो विधीयते ॥ १३ ॥

कोषः—'आत्मजस्तनयः सूनुः सुतः पुत्र स्त्रियां त्वमी' इत्यमरः । 'वृथा निरर्थकाविध्योः' इत्यमरः । 'मोहश्चित्तभ्रमो भ्रान्तिर्भ्रमो मूर्छति संमता' इति कोषः ॥

सारार्थः—भवन्तोऽपि धृतराष्ट्रस्य भ्रातृपुत्रत्वेन पुत्रोपमा एव, तत्रापि दुर्योधनापेक्षया विशेषगुणवन्तोऽपि सन्ति, तथापि तेन यद्भवन्तस्त्यक्ताः स्वपुत्रोऽङ्गीकृतस्तन्नोचितं विहितम् । परन्तु विषयाभिलाषो मोहं करोति, तेन हेतुना धृतराष्ट्रस्य मतिर्मोहापन्ना जाता इति ॥ १३ ॥

भाषार्थः—क्या आप पाँचो भाई धृतराष्ट्र के लड़के नहीं हैं या दुर्योधन से विशेष गुणी नहीं हैं, जो उसने आप लोगों को छोड़ दिया सो व्यर्थ ही और बिना विचार से, क्योंकि विषय की चाह मनुष्य को हृदयहीन कर देती है ॥ १३ ॥

अथ राज्ञ उत्साहवर्द्धनाय शत्रोर्हानिं सूचयति—

जहातु नैनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः ।
असाधुयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥ १४ ॥

जहात्विति ॥ एनं धृतराष्ट्रमर्थसिद्धिः कथं न जहातु । जहात्येवेत्यर्थः । 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' इति प्राप्तकाले लोट् तस्य हानिकालः प्राप्त इत्यर्थः । कुतः । यो धृतराष्ट्रः संशय्य सन्दिह्य कर्णादिषु । तिष्ठते कर्णादीन्दुर्मन्त्रिणः सन्दिग्धार्थनिर्णेतृत्वेनावलम्बत इत्यर्थः । 'प्रकाशनस्थेयाख्ययोश्च' इति स्थेयाख्यायामात्मनेपदम् । तिष्ठतेऽस्मिन्निति स्थेयो विवादपदनिर्णोता । तथा हि । असाधुयोगा दुर्जनसंसर्गा जयान्तराया जयविघातकाः । किञ्च प्रमाथिनीनामुन्मूलनवशीलानां विपदां पदानि स्थानानि । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । न केवलं जयघातिनः किन्त्वनर्थकारिणश्चेत्यर्थः धृतराष्ट्रोऽपि दुर्जनः—विधेयत्वाद् विनंक्ष्यतीति ॥ १४ ॥

अन्वयः—यः, कर्णादिषु, संशय्य, तिष्ठते, एनम्, अर्थसिद्धिः, कथं, न, जहातु, हि, जयान्तरायाः, असाधुयोगाः, प्रमाथिनीनां, विपदां पदानि ( भवन्ति ) ॥