भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 203, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 203

सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११

**भाषार्थः—**शान्ति रखना ही एक चाल है जिसकी, ऐसे आपकी हानि के छल से अपनी हानि करके आपकी बुद्धि (समझ) और शील (सच्चरित्रता) ईमानदारी के प्रभाव को प्रकाशित करनेवाले आपके दुश्मन लोग आपके उपकारी के ही समान हैं ॥ १६ ॥

अथ प्रयोजनान्तरमाह—

लभ्या धरित्री तव विक्रमेण ज्यायांश्च वीर्यास्त्रबलैर्विपक्षः ।
अतः प्रकर्षाय विधिर्विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥१७॥

...न्थेति ॥ तव । त्वयेत्यर्थः । 'कृत्यानां कर्तरि वा' इति षष्ठी । धरित्री । विक्रमेण लभ्या प्राप्तव्या । न च सुलभा तं विनेत्याह—विपक्षश्च शत्रुरपि । वीर्यं शौर्यमस्त्राण्याग्नेयादीनि बलानि सैन्यानि तैर्ज्यायान्प्रशस्यतरः । अधिकतर इति यावत् । ज्येष्ठस्य 'यादादीयसः' इति ज्यादेशः । अतः प्रकर्षायाधिक्याय । उपायो विधेयः कर्तव्यः । कुतः । हि यस्माद्रणे जयश्रीः प्रकर्षतन्त्रा प्रकर्षप्रधाना । प्रकर्षोद्यतेत्यर्थः । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । बलिन एव जयः, न तु दुर्बलस्येति भावः ॥ १७ ॥

**अन्वयः—**तव धरित्री, विक्रमेण, लभ्या, च, विपक्षः, वीर्यास्त्रबलैः, ज्यायान् अतः, प्रकर्षाय, विधिः, विधेयः, हि, रणे, जयश्रीः, प्रकर्षतन्त्रा ॥ १७ ॥

**व्याख्या—**तव = भवतः, युधिष्ठिरस्येत्यर्थः । धरित्री = पृथ्‍वी, विक्रमेण = पराक्रमेण, लभ्या, = प्राप्या भविष्यतीति शेषः । न तु शान्त्या लभ्येति भीममतानुमोदनम् । विपक्षश्च = शत्रुश्च, वीर्यास्त्रबलैः = शौर्यशस्त्रसैन्यैः, ज्यायान् = महीयान्, अस्तीति शेषः । अतः = अस्मात्, कारणात् प्रकर्षाय = उत्कर्षाय, शत्रुतोऽधिकवीर्यशस्त्रसैन्यसम्पादनायेत्यर्थः । विधिः = विधानं, विधेयः = कर्तव्यः, हि = यस्मात्, कारणात्, रणे = सङ्ग्रामे, जयश्रीः = जयलक्ष्मीः, प्रकर्षतन्त्रा = उत्कर्षजनाधीना, न त्वपकर्षजनायेति भावः । अनेनाधुना युद्धकरणमुचितमिति युधिष्ठिर-मतानुमोदनं कृतं भगवता व्यासेन यतो मिथः सहजग्रोरुरोधः शान्तो भवेदिति ॥ १७ ॥

**समासः—**वीर्यं चास्त्राणि च बलानि च वीर्यास्त्रबलानि, तैर्वीर्यास्त्रबलैः । प्रकर्षेस्वतन्त्रं मुख्यो यस्याः सा प्रकर्षतन्त्रा । जयस्य श्रीः जयश्रीः ॥ १७ ॥

**व्याकरणम्—**लभ्या = लभ् + यत् । विधेयः = वि + धा + यत् ॥ १७ ॥

**वाच्यान्तरम्—**त्वं स्वकीयां धरित्रीं विक्रमेण लप्स्यसे । तव विपक्षेण वीर्यास्त्रबलैर्ज्यायसा भूयते । अतः प्रकर्षाय विधिः विधेहि, रणे जयश्रिया प्रकर्षतन्त्रया भूयते ॥ १७ ॥