भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 209, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 209

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २५

समान द्रोणाचार्य को आपके दल वालों में कौन रोकेगा ? अर्थात् कोई भी नहीं ॥ २० ॥

निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयमाराधितजामदग्न्यम्।
असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ॥ २१ ॥

निरीक्ष्येति ॥ संरम्भेण कोपेन निरस्तं त्याजितं धैर्यं निर्विकारचित्तत्वं येन तं तथोक्तम् आटोपेनैव परधैर्यापहारिणमित्यर्थः। आराधितजामदग्न्यं शुश्रूषित-भार्गवम्। जामदग्न्यादधिगतास्त्ररहस्यमित्यर्थः। राधेयं राधासुतं कर्णम् 'स्त्रीभ्यो ढक्'। निरीक्ष्य मृत्योरप्यसंस्तुतेष्वपरिचितेषु। 'संस्तवः स्यात्परिचयः' इत्यमरः भयेषु प्रसभं पक्षपातः परिचयो जायेत। मृत्युरप्यस्माद्बिभीयात्किमुतान्य इति भावः। सम्भावनायां लिङ्। अत्र जनिक्रियाऽपेक्षया समानकर्तृकत्वाभावेऽपि पक्ष-पातक्रियाऽपेक्षया तत्सम्भवान्निरीक्ष्येति ल्यबन्निर्देश समर्थनीयः। 'प्रधानोपसर्जन-भावस्त्वप्रयोजकः' इति व्यक्तिविवेककारः। अत्र भयसम्बन्धरहितस्य मृत्योर्भय-सम्बन्धाभिधानादसम्बन्धे सम्बन्धरूपातिशयोक्तिरलङ्कारः ॥ २१ ॥

अन्वयः—संरम्भनिरस्तधैर्यम्, आराधितजामदग्न्यं, राधेयं निरीक्ष्य, असंस्तुतेषु भयेषु प्रसभं, मृत्योः, अपि, पक्षपातः, जायेत ॥ २१ ॥

व्याख्या—संरम्भनिरस्तधैर्यं = कोपव्यक्तसन्तोषम्, आराधितजामदग्न्यं = सेवितपरशुरामं, राधेयं = राधापुत्रं कर्णमित्यर्थः। निरीक्ष्य = विलोक्य, सङ्ग्रामे इति शेषः। असंस्तुते = अपरिचितेषु, अकस्माज्जनितेष्वित्यर्थः। भयेषु. भीतिषु, प्रसभं = बलात्, सहसेत्यर्थः। मृत्योः यमराजस्य, अपि, पक्षपातः, परिचयः, जायेत = उत्पद्येत। यमस्यापि भयमुत्पद्यते तथाविधं कर्णं विलोक्य तर्हि का कथाऽन्येषामिति भावः ॥ २१ ॥

समासः—संरम्भेण निरस्तं धैर्यं यस्यः सः, तं संरम्भनिरस्तधैर्यम्, आरा-धितः जामदग्न्यो येन सः, आराधितजामदग्न्यस्तमाराधितजामदग्न्यम्। राधाया अपत्यं पुमान् राधेयस्तं राधेयम्। न संस्तुता असंस्तुतास्तेष्वसंस्तुतेषु, पक्षे पातः पक्षपातः ॥ २१ ॥

व्याकरणम्—निरीक्ष्य = निर् + ईक्ष् + क्त्वा + ल्यप्। जायेत-जन् + लिङ्॥
वाच्या०—राधेयं निरीक्ष्यसंस्तुतेषु भयेषु प्रसभं मृत्योरपि पक्षपातेन जायेत॥
कोषः—'क्रोधः कोपस्तु संरम्भ' इति कोपः। 'संस्तवः स्यात् परिचय' इत्य-मरः। 'प्रसभं तु बलात्कारो हठ' इत्यमरः ॥ २१ ॥

सारार्थः—युद्धे यः कर्णः प्रतिपक्षिणां धैर्यनाशं करोत्येव, येन परशुरामसेवया युद्धशिक्षा शिक्षिता, यं विलोक्य, जगद्भयङ्करस्यापि यमस्य भयमुत्पद्यते, तवग्रे न कोऽपि भवत्पक्षीयाः स्थातुं योग्यः ॥ २१ ॥