किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 218, कुल 707 में से
संदर्भ में पढ़ें३४ किरातार्जुनीयम् [ तृतीयः
कोषः— 'सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा' इत्यमरः। अद्रिगोत्रगिरि-ग्रावाचलशैल-शिलोच्चया' इत्यमरः। 'पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनय' इत्यमरः॥ २९ ॥
सारांशः— यस्मिन् पर्वते तव तपःकरणं मया निश्चितं तत्रायं यक्षस्त्वां झटित्येवालौकिकगत्या प्रापयिष्यति। दुर्गपर्वतारोहणशमो न कोऽपि ते भविष्येति ॥
भाषार्थः— जहाँ (पर्वत पर) इन्द्र को खुश करने के लिए तुम कठिन तपस्या करोगे, उस सुन्दर शिखरवाले पर्वत पर तुझे यह यक्ष तुरत ले जायगा॥ २९॥
इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे।
तं राजराजानुचरोऽस्य साक्षात्प्रदेशमादेशमिवाधितष्ठौ ॥ ३० ॥
इतीति ॥ इतीत्थं महेन्द्रसूनुमर्जुनं ब्रुवाणेनोक्तवता। 'वर्तमानसामीप्ये' इति भूते वर्तमानवत्प्रत्ययस्तिरोधानस्याविलम्बसूचनार्थः। तेन महर्षिणा व्यासेन तिरोबभूवेऽन्तर्दधे। भावे लिट्। राजराजो यक्षराजः। 'राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः' इति विश्वः। तस्यानुचरः पूर्वोक्तयक्षोऽस्य मुनेरादेशं साक्षादिव प्रदेशमर्जुनाधिष्ठितस्थानमधितष्ठौ। प्राप्त इत्यर्थः। 'स्यादिष्वभ्यासे चाभ्यासस्य' इति षत्वम् ॥ ३० ॥
अन्वयः— महेन्द्रसूनुम्, इति, ब्रुवाणेन, तेन, महर्षिणा, तिरोबभूवे। राजराजानुचरः, अस्य (मुनेः,), साक्षात् आदेशम्, इव, तं, प्रदेशम्, अधितष्ठौ ॥ ३० ॥
व्याख्या—
- महेन्द्रसूनुम् = अर्जुनम्,
- इति = एवं,
- ब्रुवाणेन = कथितवता,
- तेन = प्रसिद्धेन,
- महर्षिणा = महायोगिना, व्यासेनेति शेषः।
- तिरोबभूवे = अन्तर्दधे। व्यासः स्वस्थानं प्रस्थित इत्याशयः।
- अथ तदानीं राजराजानुचरः = कुबेरभृत्यः, यक्ष इत्यर्थः।
- अस्य = व्यासस्य, मुनेः,
- साक्षात् = देहवान्,
- आदेशमिव = अनुशासनमिव,
- तम् = अर्जुनाध्युषितम्,
- प्रदेशं = स्थलविशेषम्,
- अधितष्ठौ = प्राप्तः, न विलम्बो जात इति ॥ ३० ॥
सारांशः— महांश्चासाविन्द्रो महेन्द्रस्तस्य महेन्द्रस्य सूनुर्महेन्द्रसूनुस्तं महेन्द्रसूनुम्। महांश्चासावृषिर्महर्षिस्तेन महर्षिणा राज्ञां राजा राजराजः, तस्य राजराजस्यानुचरः राजराजानुचरः ॥ ३० ॥
व्याकरणम् — ब्रुवाणेन = ब्रू + लट् + शानच्। तिरोबभूवे = तिरस् + भू + भावे लिट्। अधितष्ठौ = अधि + स्था + लिट् ॥ ३० ॥
वाच्यान्तरम् — महेन्द्रसूनुमिति ब्रुवाणः स महर्षिस्तिरोबभूव। अस्य साक्षादादेश इव स च प्रदेशः राजराजानुचरेण सोऽधितष्ठे ॥ ३० ॥