भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 230, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 230

४६ किरातार्जुनीयम् [ तृतीयः

सङ्ख्याम् = मानवगणनाम्, अतिक्रमितुं, सकलनरातिशायि-कर्म-करणाय, निरुत्सु- कानाम् = औत्सुक्यहीनानाम्, अभियोगभाजाम् = अभिनिवेशवतां, कर्मण्या- सक्तानामित्यर्थः । जनानामिति शेषः । सिद्धिः = क्रियासिद्धिः, समुत्सुका = समु- त्कण्ठिता, स्त्री, इव, अङ्कं = क्रोडम्, उपैति = प्राप्नोति ॥ ४० ॥

समासः—सुखस्य लिप्सा लब्धुमिच्छा या सा सुखलिप्सा, तया सुखलिप्सया मनुष्याणां सङ्ख्या मनुष्यसङ्ख्या तां मनुष्यसङ्ख्याम् । निर्गता उत्सुकाः निरुत्सुका- स्तेषां निरुत्सुकानाम् । अभियोगं भजन्ते ये तेऽभियोगभाजस्तेषामभियोग- भाजाम् ॥ ४० ॥

व्याकरणम्—अधिगन्तुम् = अधि + गम् + तुमुन् । अतिवर्त्तितुम् = अति + वृ + तुमुन् । उपैति = उप + इण् + लट् ॥ ४० ॥

वाच्यान्तरम्—निरुत्सुकानामभियोगभाजां समुत्सुकया कान्तयेव सिद्ध्या, अङ्क उपेयते ॥ ४० ॥

कोषः—'यशः कीर्त्तिः समज्ञा च' इत्यमरः । 'स्यादानन्दथुरानन्दः शर्मशात- सुखानि च' इत्यमरः । 'इच्छाऽऽकाङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः' इत्यमरः । 'अभियोगस्तु शपथे स्यादार्द्रे च पराभवे'—इति विश्वः ॥ ४० ॥

सारार्थः—कीर्तिर्मे भवतु सुखं मे भवतु । मनुष्याणां गणनाया अवसरेऽहं सर्वप्रथमो भवामि, एवं मनोरथशालिभिर्जनैरुत्कण्ठां सर्वथा परित्यज्येव कर्म कर्त्तव्यं तदा स्वयं परमानुरागेणोत्कण्ठिता कामिनीव तत्कार्यसिद्धिरुतस्सकाशमागच्छति ॥

भाषार्थः—यश मिलने की इच्छा से, या सुख की चाह से, या मनुष्य की गिनती को अतिक्रमण (सब से असाधारण होना) करने की इच्छा से जो उद्योगी लोग उत्कण्ठा को दूर छोड़ कर काम करते हैं, उत्कण्ठिता स्त्री की नाईं कार्यसिद्धि उनकी गोद में दौड़कर पहुँचती है ॥ ४० ॥

अथास्य मन्यूद्द्दीपनद्वारा तपःप्रवृत्ति प्रथयितुमरिनिकारं तावच्चतुर्भिश्लोकाटयति—

लोकं विधात्रा विहितस्य गोप्तुं क्षत्रस्य मुष्णन्वसु जैत्रमोजः । तेजस्विताया विजयैकवृत्तेर्निघ्नन्प्रियं प्राणमिवाभिमानम् ॥ ४१ ॥

लोकमिति ॥ विधात्रा ब्रह्मणा लोकं गोप्तुं विहितस्य सृष्टस्य क्षत्रस्य क्षत्रियजातेः सम्बन्धि । जयनशीलं जेतु तदेव जैत्रम् । जैतृशब्दात्तृजन्तात् 'प्रज्ञादिभ्यश्च' इति स्वार्थेऽण्प्रत्ययः । ओजो बलं च दीप्तिर्वा । 'ओजो बले च दीप्तौ च—' इति विश्वः । तदेव वसु धनमिति रूपकालङ्कारः । मुष्णन्नपहरन् । अरिनिकृतस्य कुतः क्षात्रं तेज इति भावः । किञ्च विजयैकवृत्तेर्विजयैकजीवितायाः । 'क्षत्रियस्य विजितव्यम्' इति स्मरणादिति भावः । 'वृत्तिर्वर्त्तनजीवने' इत्यमरः । तेजस्वितायास्तेजस्वि- नामित्यर्थः । तेजःप्राधान्यद्योतनार्थं भावप्रधानो निर्देशः । प्रियं प्राणमिव । प्राण-

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 230, कुल 707 में से · BharatKosha