भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 233, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 233

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ४१

सारार्थः—द्यूतक्रीडया सभायां मां जित्वा वस्त्रापकर्षणापमानो मम दुर्योधनेन यः कृतः स इतरस्ततो लोकमुखेन प्रचारितोऽपि मध्यस्थैः पूर्वमकसंव्यहितयाऽवि- श्वसितः, पश्चाद्विश्वस्तजनद्वारा परिज्ञातो लज्जानतैर्भूवैः, तत एव दिगन्तव्यासकीर्त्ति- वितानं सोऽपमानस्त्वां विना पुनर्नूतन इवाविर्भवति ॥ ४२ ॥

भाषार्थः—विश्वासी लोगों के द्वारा ज्ञात, इसीलिये लज्जा (शर्म) से नीचे मुँह किये राजाओं से, किसी तरह विश्वास किया गया और दुनियाँ में चाँदनी के समान फैली हुई दिगन्तव्यापी कीर्त्ति को समझे हुये के समान मेरा अपमान आप के बिना फिर नया हो जायगा ॥ ४२ ॥

वीर्यावदानेषु कृतावमर्षस्तन्वन्नभूतामिव सम्प्रतीतिम् ।
कुर्वन्प्रयामक्षयमायतीनामर्कत्विषामह्न इवावशेषः ॥ ४३ ॥

वीर्येति ॥ पुनश्च । वीर्याण्येवावदानानि तेषु कृतावमर्षः कृतास्कन्दनः । पुरा कृतपराक्रमज्ञानान्यपि प्रमृजन्नित्यर्थः । 'अवदानं कर्म वृत्तम्' इत्यमरः । अत एव सम्प्रतीतिं ख्यातिम् । 'प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः' इत्यमरः । अभूता- मविद्यमानामिवेत्युत्प्रेक्षा । सतोऽप्यसत्त्वमुत्प्रेक्ष्यते । तन्वन् कुर्वन् । पुनश्चाह्नोऽवशेषे दिनान्तोऽर्कत्विषामिवाायतीनामुत्तरकालानां प्रयामक्षयं दैर्घ्यनाशं कुर्वन्निति श्रौती पूर्णेयमुपमा । अरिनिराकृतस्य कुतश्चिरावस्थानमिति भावः ॥ ४३ ॥

अन्वयः—वीर्यावदानेषु, कृतावमर्षः, अभूताम्, इव, सम्प्रतीति, तन्वन्, आयतीनाम्, अर्कत्विषां, प्रयामक्षयं, कुर्वन्, अह्नः, अवशेषः, इव ॥ ४३ ॥

व्याख्यावीर्यावदानेषु = शौर्यवृत्तिकर्मसु, पराक्रमसाध्येध्वित्यर्थः । कृतावमर्षः = विहिताक्षेपः, कृताक्रमण इत्यर्थः । अर्थाज्ञानाद्दिग्भ्योऽप्येकत्रीकृतानामस्माकं राजसूयावसरिकधनानामात्मायसीकारक इत्यर्थः । अभूताम् = अजाताम्, इव यथा पाण्डवानां वीरत्वप्रकटनं कर्म मिथ्यैवेतिरूपामित्यर्थः । सम्प्रतीतिं = ख्यातिं, तन्वन् = विस्तारयन्, स्वमहात्म्येनेति शेषः । आयतीनाम् = उत्तरकालानाम्, भाविशुभसम्भावनामित्यर्थः । वा पक्षे, दिगन्तविस्तृतानाम्, अर्कत्विषां = सूर्यकान्तीनां, प्रयामक्षयम् = परिणामं, सर्वथा संहारमित्यर्थः । कुर्वन् = विदधद्, निकार इति, अह्नः = दिनस्य, अवशेषः = दिनान्तभागः, इव ॥ ४३ ॥

समासः—वीर्याण्येवावदानानि वीर्यावदानानि तेषु वीर्यावदानेषु । कृतोऽवमर्षो येन सः कृतावमर्षः । अर्कस्य त्विषोऽर्कत्विषस्तासामर्कत्विषाम् ॥ ४३ ॥

व्याकरणम्—तन्वन् = तन् + लट् + शतृ । कुर्वन्=कृ + लट् = शतृ ॥ ४३ ॥

वाच्यान्तरम्—वीर्यावदानेषु कृतावमर्षेण, अभूतामिव सम्प्रतीतिं तन्वता, आयतीनामर्कत्विषां प्रयामक्षयं कुर्वता अर्कत्विषामह्नोऽवशेषेनेव ॥ ४३ ॥

५ कि०