किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 265, कुल 707 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः ९
अर्थः—पाण्डवः = अर्जुनः । पशूनां = गवाम् । सहजन्मबन्धुताम् = सोदर-बन्धुत्वम्, गतान् = प्राप्तान् । गृहाश्रयम् = गृहविषयम् । प्रेम = प्रीतिम् । वनेषु = काननेषु । बिभ्रतः = धारयतः । आर्जवे = विधेयत्वे । गोभिः = पशुभिः । कृतानुकारान् = अनुकृतान् । इव । गोगान् = गोपालान् । उपधेनु = धेनोः समीपे । ददर्श = सवलोकयामास । अत्रोत्प्रेक्षालङ्कारः ।
कोषः—'गहनं काननं वनमि'त्यमरः ।
हिन्दी—अर्जुन ने पशुओं के साथ रहने के कारण पशुओं के कुटुम्बो से बधे हुए गोपों.को देखा । उन ग्वालों को घर को अपेक्षा वन अधिक प्रिय था और सरलता तो मानो वे पशुओं से सीख रहे थे ॥ १३ ॥
परिभ्रमन्मूर्धजषट्पदाकुले स्मितोदयादर्शितदन्तकेसरैः ।
मुखैश्चलत्कुण्डलरश्मिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ॥ १४ ॥
अन्वयः—परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः चलत्कुण्डलरश्मिरञ्जितैः नवातपामृष्टसरोजचारुभिः मुखैः ।
विग्रहः—मूर्धजाः षट्पदा इव तैः = मूर्धजषट्पदैः । परिभ्रमद्भिः मूर्धजषट्पदैः आकुलानि तैः = परिभ्रमन्मूर्धजषट्पदाकुलैः । दन्ताः केसरा इव दन्तकेसराः । स्मितोदयेनादर्शिताः दन्तकेसरा येषां तैः = स्मितोदयादर्शितदन्तकेसरैः । चलन्ति कुण्डलानि = चलत्कुण्डलानि । तेषां रश्मिभिः रञ्जितानि, तैः = चलत्कुण्डलरश्मिरञ्जितैः । नवेनातपेनामृष्टम् = नवातपामृष्टम् । नवातपामृष्टं सरोजं तद्वच्चारूणि तैः = नवातपामृष्टसरोजचारुभिः ।
अर्थः—परिभ्रमन्मूर्धजषट्पदाकुलैः = चलच्छिरोरुहभ्रमराकुलैः । स्मितोदयादर्शितदन्तकेसरैः = ईषद्धसितदन्तकेसरैः । चलत्कुण्डलरश्मिरञ्जितैः = चलत्कर्णाभूषणप्रभाभासितैः । नवातपामृष्टसरोजचारुभिः = बालातपस्पृष्टकमलवत्सुन्दरैः । मुखैः = आननैः । उपलक्षिताः ।
कोषः—'द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः ।
हिन्दी—अर्जुन ने नाचती हुई गोपबालाओं को देखा, जिनके मुख पर लटकते हुए बाल भौरों के समान प्रतीत होते थे । मंदहास से प्रकटित दांत पुष्पपराग के समान लग रहे थे । गालों पर लटकते हुए कुण्डलों की दीप्ति से रंजित मुख प्रातःकालीन सूर्य की किरणों से विकसित कमल की भाँति शोभित थे ॥ १४ ॥