किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 275, कुल 707 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः १९
उड़ाया हुआ छितौन का पीला पराग उनके पीले वस्त्रों सा है। मानों उस पीत रजरूपी वस्त्र को वायु द्वारा उड़ाये आने पर वे वनराजि-वधुएँ उसे रोक सी रही हैं ॥ २८ ॥
अदोपितं वैद्युतजातवेदसा सिताम्बुदच्छेदतिरोहितातपम् ।
ततान्तरं सान्तरवारिसीकरैः शिवं नभोवर्त्म सरोजवायुभिः ॥ २९ ॥
अन्वयः — वैद्युतजातवेदसा अदोपितम् सिताम्बुदच्छेदतिरोहितातपम् सान्तरवारिसीकरैः ततान्तरं सरोजवायुभिः शिवं नभोवर्त्म ।
विग्रहः — विद्युति भवः जातवेदाः वैद्युतजातवेदास्तेन वैद्युतजातवेदसा । सिताम्बुदानां छेदैः तिरोहितम् आतपम् = सिताम्बुदच्छेदतिरोहितातपम् । वारीणां सीकराः वारिसीकराः । अन्तरेण सहिताः वारिसीकराः, तैः सान्तरवारिसीकरैः । ततम् अन्तरं यस्मिन् तत् ततान्तरम् । सरोजानां वायुभिः सरोजवायुभिः । नभसो वर्त्म = नभोवर्त्म ।
अर्थ — वैद्युतजातवेदसा = वैद्युताग्निना । अदोपितम् = अप्रकाशितम् । सिताम्बुदच्छेदतिरोहितातपम् = शुभ्राम्भोदलखण्डैस्तिरोहितघर्मम् । सान्तरवारिसीकरैः = विरलाम्बुकणैः । ततान्तरम् = व्याप्तमध्यम् । सरोजवायुभिः = कमलगन्धयुक्तपवनैः । शिवम् = रम्यम् । नभोवर्त्म = आकाशमार्गम् । अत्र स्वभावोक्तिरलङ्कारः ।
कोषः — 'प्रकाशो द्योत आतपः' इत्यमरः । 'नभोऽन्तरिक्षं गगनम्' इत्यमरः ।
हिन्दी — आकाशमार्ग विद्युत्प्रकाश से प्रकाशित नहीं हो रहा था, शुभ्र-बादलों से सूर्य की धूप भी छिप गई थी । जलकणों से युक्त तथा कमल-सुरभि से सुगन्धित वायु के द्वारा वह (आकाशमार्ग) अतीव रमणीय बन गया था ॥ २९ ॥
सितच्छदानामपदिश्य धावतां रुतैरमीषां प्रथिताः पतत्रिणाम् ।
प्रकुर्वते वारिदरोधनिर्गताः परस्परालापमिवामला दिशः ॥ ३० ॥
अन्वयः — अपदिश्य धावताम् अमीषां सितच्छदानां प्रथिताः पतत्रिणा रुतैः वारिदरोधनिर्गताः अमलाः दिशः परस्परम् आलापम् इव प्रकुर्वते ।
विग्रहः — सिताः छदाः सन्ति येषां ते तेषाम् = सितच्छदानाम् । वारिदानां रोषः = वारिदरोधः । वारिदरोषेण निर्गताः = वारिदरोषनिर्गताः ।