भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 28, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 28

संस्कृत-कथासारः

प्रथमसर्गे

युधिष्ठिरं प्रति वनेचरस्योक्तिः

हे राजन ! चारचक्षुषो राजानो नानुयायिभिर्वञ्चनीयाः, अतो मदुक्तं युक्तमयुक्तं वा त्वया क्षन्तव्यम्, यतो हितकरं प्रियं च वचो दुर्लभम्भवति। अधिपत्याशासकः सुहृद् हितवचनाश्रोताऽधिपश्च निन्द्यौ । यतोऽन्योऽन्यानुरागिष्वेवामात्यनृपेषु सर्वसम्पदस्तित्ष्ठन्ति । रामचरितं स्वभावतो दुर्ज्ञेयं जन्तवश्चाज्ञानिनो भवन्त्युभयोर्महद्वैषम्यम्, अथापि त्वत्प्रभावादेवास्याकमरिगूढनीतिमार्गज्ञानम् ।

वनेचरस्य वक्तव्योक्तिः

सिंहासनस्थोऽपि दुर्योधनो भवतः पराजयभीत्या विमलं यशो विस्तारयति। षड्वर्गविजयी नीत्यनुसरणशीलो दुर्योधनों नक्तन्दिवं विभज्य नीत्या पौरुषं करोति। निरभिमानो दुर्योधनो भृत्येषु मित्रभावं, मित्रेषु बन्धुभावं, बन्धुषु च स्वामिभावं लोकान्दर्शयते । समविभक्तधर्मार्थकामसेवकस्य दुर्योधनस्य ते गुणानुरागात्सख्यं प्राप्तवन्त इव परस्परं न बाधन्ते, अपि तु वर्धन्त एव। वशी दुर्योधनो धनलोभात् क्रोधाद्वा न दण्डधारी, किन्तु 'राज्ञो ममायं धर्मः' इति बुद्ध्या गुरुशिक्षया शत्रौ पुत्रे वा दण्डयिता। कीर्तिमतो दुर्योधनेन सर्वतो रक्षिता मही भूरि वसूत्पादयति। कीर्तिमन्तस्तेजस्विनो मानिनो धनादृता धनुर्भृतो राजानो दुर्योधनस्य प्राणैः प्रियं कर्तुमिच्छन्ति । अशेषितक्रियो दुर्योधनोऽवञ्चकचरद्वाराऽन्यनृपकार्यं वेत्ति । अस्योद्योगस्तु फलैर्ज्ञायते नान्यथा । अक्रुद्धस्यापि दुर्योधनस्यस्यानुशासनं गुणानुरागिणो राजानः शिरसा वहन्ति। यौवराज्ये दुःशासनं नियुज्य दुर्योधनो मखेषु वह्निं प्रीणयति। यथोच्चरितमन्त्रश्रवणादुरगो व्यथते तथा जनोदीरितभवन्नामाकर्णनादयं व्यथते । हे राजन् ! शत्रुप्रतिकारविधाने तत्परो भव, चरोक्तिषु प्रवृत्तिसारैव वेदितव्या।

युधिष्ठिरं प्रति द्रौपद्युक्तिः

हे स्वामिन् ! विज्ञेषु स्त्रीजनोक्तमनुशासनमनादर इव भवति, अथापि दुष्टा मनोव्यथा वक्तुं मां प्रेरयन्ति । हे स्वामिन् ! स्ववंशजे राजभिरुपार्जिता मही मत्तगजेन मालेव त्वया विनाशिता । हे राजन् ! ये मायिषु मायां न कुर्वन्ति ते पराभवं भजन्ते। तीक्ष्णबाणा अनावृतशरीरान् घ्नन्ति । हे राजन् ! कोऽन्यः कुलाभिमानी राजा निजवधूमिव लक्ष्मीं त्वामन्तरेणापहारयति । हे राजन् ! अग्निः शुष्कं शमीवृक्षमिव निन्दितमार्गस्थं त्वा मन्युः कुतो न ज्वलति । सकलमन्योरपद्विनाशकस्य पुंसः सर्वे च प्राणिनो वश्या भवन्ति, स्नेहिनो निष्कोपात्पुंसो न कस्यचिद्भयं भवति। हे