किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 312, कुल 707 में से
संदर्भ में पढ़ें| ५४ | किरातार्जुनीयम् |
|---|
स्नपितनवलतातरुप्रवालैरमृतलवस्रुतिशालिभिर्मयूखैः ।
सततमसितयामिनीषु शम्भोरमलयतीह वनान्तमिन्दुलेखा ॥ ४४ ॥
**अन्वयः—**इह शम्भोः इन्दुलेखा स्नपितनवलतातरुप्रवालैः अमृतलवस्रुतिशालिभिः मयूखैः सततम् असितयामिनीषु वनान्तम् अमलयति ।
**विग्रहः—**इन्दोः लेखा = इन्दुलेखा । लतातरूणां प्रवालानि = लतातरुप्रवालानि । स्नपितानि नवानि लतातरुप्रवालानि यैस्तैः स्नपितनवलतातरुप्रवालैः । अमृतलवस्रुत्या शाल्हन्ते ये, तैः अमृतलवस्रुतिशालिभिः । असिताः यामिन्यः = असितयामिन्यः तासु = असितयामिनीषु । वनस्यान्तस्तं = वनान्तम् ।
**अर्थः—**इह = अत्राद्रौ । शम्भोः = शिवस्य । इन्दुलेखा = चन्द्ररेखा । स्नपितनवलतातरुप्रवालैः = सिक्त नूतनशाखापादपप्रवालैः । अमृतलवस्रुतिशालिभिः = अमृतविन्दुनिष्यन्दशालिभिः । मयूखैः = किरणैः । सततम् = निरन्तरम् । असितयामिनीषु = कृष्णरात्रिषु । वनान्तं = वनान्तप्रदेशम् । अमलयति = धवलयति ।
कोषः—'विभावरीतंमस्विन्यौ रजनी यामिनो तमी' इत्यमरः ।
**हिन्दी—**इस कैलास पर भगवान् शंकर की शिरःस्थित चन्द्रलेखा सदैव अमृत-बिन्दु टपकाने वाली किरणों से नवलतात को सींचती रहती है । तथा वह कृष्णपक्ष की अन्धेरी रात्रियों में वनान्त भाग को धवलित बना देती है ॥ ४४ ॥
क्षिपति योऽनुवनं विततां बृहद्वृहतिकामिव रोचनिकीं रुचम् ।
अयमनेकहिरण्मयकन्दरस्तव पितुर्दयितो जगतीधरः ॥ ४५ ॥
**अन्वयः—**यः अनुवनं विततां रोचनिकीं रुचम् बृहद्बृहतिकाम् इव क्षिपति । अनेकहिरण्मयकन्दरः अयम् तव पितुः दयितः जगतीधरः ।
**विग्रहः—**वनेवनेऽनुवनम् । रोचनया रक्तां = रोचनिकीम् । बृहती चासौ बृहतिका = बृहद्बृहतिका, ताम् = बृहद्बृहतिकाम् । अनेकाः हिरण्मयकन्दराः सन्ति यस्मिन् सः = अनेकहिरण्मयकन्दरः । जगत्या धरः = जगतीधरः ।
**अर्थः—**यः = पुरोवर्ती । अनुवनं=वनेवने वितताम्=विस्तृताम् । रोचनिकीम् रुचम्=रुचिकरां कान्ति सोवर्णकान्तिमित्यर्थः । बृहद्बृहतिकाम् = महोत्तरासङ्गमिव । क्षिपति = प्रसारयति । अनेकहिरण्मयकन्दरः = बहुहिरण्मयकन्दरायुक्तः । अयम् = निर्दिष्टः । तव=ते । पितुः = इन्द्रस्य । दयितः = प्रियः । जगतीधरः = सर्वतः अस्तीति शेषः । द्रुतविलम्बितवृत्तमत्र ।