किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 319, कुल 707 में से
संदर्भ में पढ़ेंषष्ठः सर्गः
रुचिराकृतिः कनकसानुमयो परमः पुमानिव पतिं पतताम् ।
धृतसत्पथस्त्रिपथगामभितः स तमारुरोह पुरुहूतसुतः ॥ १ ॥
अन्वयः—अथो रुचिराकृतिः धृतसत्पथः सः पुरुहूतसुतः कनकसानुं तम् परमः पुमान् पतताम् पतिम् इव त्रिपथगाम् अभितः आरुरोह ।
विग्रहः—रुचिरा आकृतिर्यस्य सः=रुचिराकृतिः । धृतः सतां पन्था येन सः=धृतसत्पथः । पुरुहूतस्य सुतः = पुरुहूतसुतः । कनकस्य सानवो यस्य तम्=कनकसानुम् । त्रिभिः पथिभिर्गच्छतीति त्रिपथगा, ताम्=त्रिपथगाम् ।
अर्थः—अथो = इन्द्रनीलासादनानन्तरम् । रुचिराकृतिः = सौम्यरूपः । धृतसत्पथः = गृहीतसन्मार्गः । सः = अर्जुनः । पुरुहूतसुतः = इन्द्रपुत्रः । कनकसानुं = सुवर्णशेखरम् । तम् = इन्द्रनीलाद्रिम् । परमः पुमान् = विष्णुः । पततां = पक्षिणाम् । पतिं = स्वामिनं, गरुडम् इव । त्रिपथगाम् = भागीरथीम् । अभितः = अभिमुखम् । आरुरोह = आरोहणं कृतवान् । अत्र प्रमिताक्षरावृत्तम् ।
कोषः—‘समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः’ इत्यमरः ।
हिन्दी—इन्द्रकील पर्वत पर पहुँचने के पश्चात् सुन्दर शरीरवाले, सन्मार्ग पर चलनेवाले इन्द्रपुत्र अर्जुन ने भागीरथी के सम्मुख से सुवर्ण-शिखरों वाले उस इन्द्रनील पर्वत पर इस प्रकार चढ़ना आरम्भ किया जैसे पुराणपुरुष (विष्णु) गरुड़ पर चढ़ते हैं ॥ १ ॥
अथास्य कार्यसिद्धिनिमित्तानि सूचयन् मार्गं वर्णयति :—
तमनिन्द्यवन्दिन इवेन्द्रसुतं विहितालिनिक्कणजयध्वनयः ।
पवनेरिताकुलविजिह्मशिखा जगतीरुहोऽवचकरुः कुसुमैः ॥ २ ॥
अन्वयः—विहितालिनिक्कणजयध्वनयः पवनेरिताकुलविजिह्मशिखाः जगतीरुह अनिन्द्यवन्दिनः इव तम् इन्द्रसुतं कुसुमैः अवचकरुः ।
विग्रहः—विहिताः अलिनिक्कणा जयध्वनय इव यैस्ते=विहितालिनिक्कणजयध्वनयः । पवनेन ईरिताः अतएव, आकुलाः विजिह्माः शिखाः येषां ते=