किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 380, कुल 707 में से
संदर्भ में पढ़ें१२२ किरातार्जुनीयम्
विग्रहः— नवस्य पल्लवस्य आकृतिरिवाकृतिर्ययोस्तौ = नवपल्लवाकृती । कल्पलतायाः अभिशङ्का, तया = कल्पलताभिशङ्कया । षट् पदानि सन्ति एषां ते = षट्पदाः । षट्पदानाम्आवलिः = षट्पदावलिः ।
अर्थः— मानिनि = अयि मानशीले ! नवपल्लवाकृती = नवदलरूपौ । करो = हस्तौ । धुनाना = कम्पायमाना । वृथा = व्यर्थम् । परिश्रमम् = श्रमम् । मा कृथाः = मा कुरुष्व । कल्पलताभिशङ्कया = कल्पद्रुमभ्रान्त्या । उपेयुषी = उपगता । षट्पदावलिः = भ्रमरपङ्क्तिः । कथं । नु = किल । इतः = अस्मात् । त्रस्यसि = बिभेसि । न त्रस्यत्येवेत्यर्थः ॥ ७ ॥
कोषः— 'द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः ।
हिन्दी— किसी अप्सरा को भौंरों ने घेर लिया है इसपर कोई व्यक्ति कहता है—हे मानशालिनी ! नये पत्तों के समान आकृतिवाले हाथों को हिलाहिला कर तुम व्यर्थ परिश्रम न करो। कल्पवृक्ष की शङ्का से यह भ्रमरालि तुम्हारे पास आई है । तुम डरती क्यों हो ॥ ७ ॥
अथ काचित्सखी काञ्चित्प्रणयकुपितामाह—
जहीहि कोपं दयितोऽनुगम्यतां पुराऽनुशेते तव चञ्चलं मनः । इति प्रियं काञ्चिदुपैतुमिच्छतो पुराऽनुनिन्ये निपुणः सखीजनः ॥ ८ ॥
अन्वयः— प्रियम् उपैतुम् इच्छती काञ्चित् निपुणः सखीजनः कोपं जहीहि दयितोऽनुगम्यताम् । चञ्चल तव मनः पुरा अनुशेते इति पुरः अनुनिन्ये ।
विग्रहः— सखी एव जनः = सखीजनः ।
अर्थः— प्रियम् = प्रणयिनम् । उपैतुम् = समीपं गन्तुम् । इच्छन्तीम् = अभिलषन्तीम् । काञ्चित् = नायिकाम् । निपुणः = चित्तज्ञः । सखीजनः = प्रिया-जनः । कोपम् = क्रोधम् । जहीहि = त्यज । दयितोऽनुगम्यताम् = प्रियोऽनुस्रियताम् । चञ्चलं = चपलं । तव = ते । मनः = चित्तम् । पुरा अनुशेते = अग्रेऽनुशयिष्यते । इति = इत्थम् । पुरः = पूर्वम् एव । अनुनिन्ये = प्रसादयामास ।
कोषः— 'कोपक्रोधामर्षरोषप्रतिघा' इत्यमरः ।
हिन्दी— किसी प्रणय-कुपिता सखी से कोई सखी कहती है :—क्रोध छोड़