किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 412, कुल 707 में से
संदर्भ में पढ़ें| १५४ | किरातार्जुनीयम् |
|---|
अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा।
क्षीबतामिव गतः क्षितिमेष्यँल्लोहितं वपुरुवाह पतङ्गः॥ ३॥
**मल्लि०--**अंशुपाणिभिरिति॥ पतङ्गः सूर्यः। 'पतङ्गः पक्षिसूर्ययोः' इत्यमरः। अतीव निर्भरम्। 'अत्यतीव च निर्भरे' इत्यमरः। पातुमिच्छुः पिपासुस्तृषितः सन्। पिबतः सन्प्रत्ययान्तादुप्रत्ययः। अंशव एव पाणयस्तैः पद्मेषु जातं पद्मजं मधु मद्येव। मध्विति क्लिष्टं रूपकम्। मकरन्दमद्यमित्यर्थः। 'मधु मद्ये पुष्परसे' इत्यमरः। भृशमत्यन्तं रसयित्वास्वाद्य क्षीवतां मत्तत्वं गत इवेत्युत्प्रेक्षा। 'मत्ते शौण्डोत्कटक्षीबा' इत्यमरः। क्षितिमेष्यन् गमिष्यन् लोहितं रक्तं वपुरुवाह। यथा मत्तः क्षीवतया क्षितौ लुठति रज्यते च तद्वदिति भावः। सूर्यस्य क्षितिविलयनमस्तमय इत्यागमः। अत्र रूपकोत्प्रेक्षयोः सापेक्षत्वादङ्गाङ्गिभावेन संकरः।
**हिन्दी—**सूर्यने अत्यन्त तृषासे युक्त होकर अपने किरण रूप हाथोंसे कमलोंमें उत्पन्न मधु (मद्य) का अत्यन्त आस्वाद कर मतवाले-से होकर जमीनपर गिरते हुए लाल शरीरको धारण कर लिया॥ ३॥
गम्यतामुपगते नयनानां लोहितायति सहस्रमरीचौ।
आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः॥ ४॥
**मल्लि०-**गम्यतामिति॥ सहस्रमरीचौ सूर्ये। लोहितो भवतीति लोहितायति। 'लोहितादिडाज्भ्यः क्यष्' इति क्यष्। 'वा क्यषः' इति परस्मैपदे शतृप्रत्ययः। अत एव नयनानां गम्यतामुपगते दर्शनीयतां प्राप्ते सति। अभितापो धरित्रीं विरहय्य विहाय। 'ल्यपि लघुपूर्वात्' इत्यायादेशः। चक्रवाकहृदयान्याससाद प्राप। अत्र धरित्र्या यादृशस्तीव्रार्ककरकृतसंतापस्तादृक्चक्रवाकहृदयेषु विरहसंतापः संजात इति परमार्थः। परंतु तदुत्क्रमानन्तरमेतस्याविर्भावात् स एवात्र संक्रान्त इत्यभेदाध्यवसायेनोत्प्रेक्षा। अत एव भेदेऽभेदरूपातिशयोक्तिरलङ्कारः।
**हिन्दी—**सूर्यके लाल होकर देखनेके योग्य होने पर तापने पृथवीको छोड़कर चक्रवाक (चकवा) पक्षीके हृदयको प्राप्त कर लिया॥ ४॥
मुक्तमूललघुरुज्झितपूर्वंपश्चिमे नभसि संभृतसान्द्रः।
सामिमज्जति रवौ न विरेजे खिन्नजिह्व इव रश्मिसमूहः॥ ५॥
**मल्लि०--**मुक्तेति॥ रवौ सामिमज्जति अर्धस्तिमिते सति। 'सामि त्वर्धे