किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 421, कुल 707 में से
संदर्भ में पढ़ेंनवमः सर्गः १६३
नववधूं नवोढाम् । 'वधूर्नवोढयोषायां स्नुषाभार्याङ्गनासु च' । इति धरणिः । स्त्रियमिवावितृप्तः सन् पश्यति स्म ।
हिन्दी — चन्द्रमाके उदय होनेपर भी लोकने अप्रसन्न अन्धकारवाली रातको घूंघट छूनेपर स्पष्ट मुखवाली परन्तु लज्जावश प्रतिभय वक्र मथी वधूकी तरह तृप्त न होकर देखा ॥ २४ ॥
न प्रसादमुचितं शशिना द्यौर्नोद्धृतं तिमिरमद्रिवनेभ्यः । दिङ्मुखेषु न बभार विकीर्णं भूषितेव रजनी द्रिमभामा ॥ २५ ॥
मल्लि० — नेति । हि०... शशिना द्योराकाशम् । उचितं योग्यं प्रसादं न गमिना अद्रयो वनानि च तेभ्यः । तिमिरं नोद्धृतं नोत्सारितम् । दिशां मुखेषु धाम तेजश्च न विकीर्णं न पर्यस्तम् । तथापि रजनी भूषितेव । उक्तगुणासम्पत्ताविति भावः । अत्र प्रसाधनकारणाऽभावेऽपि तत्सादृश्योक्त्या 'विभावनालङ्कारः' ।
हिन्दी — चन्द्रमाके कारण आकाश उचित निर्मलताको प्राप्त नहीं हुआ । पर्वतों और वनोंसे अन्धकार दूर नहीं किया गया । दिशाओंके अग्रभागोंमें तेज भी नहीं फैला तो भी रात अलंकृत ही है ॥ २५ ॥
मानिनीजनविलोचनपातानुष्णबाष्पकलुषान् प्रतिगृह्णन् । मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ २६ ॥
मल्लि० — मानिनीति ॥ उदितः शीतमयूख रुषेण विरहव्यथन रुषेण कलुषानाविलान् । मानिनीजनस्य कलहान्तरितानायिकाजनस्य विलोचनपातान् । मानभङ्गजनितरोषेण भीष्णानिति भावः । 'कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता । कलहान्तरिता' इति दशरूपके । प्रतिगृह्णन् स्वीकुर्वन् । अपरिहार्यत्वादिति भावः । अत एव भीतभीतो भीतप्रकार इत्युत्प्रेक्षा । मन्दमन्दं मन्दप्रकाशम् उभयत्रापि 'प्रकारे गुणवचनस्य' इति द्विर्भावे कर्मधारयवद्भावात्सुब्लोपः । खमाकाशं प्रययौ ।
हिन्दी — उगे हुए चन्द्रमा विरहके कारण गर्म आँसूसे मलिन मानिनी (कलहके कारण पतिसे बिछुड़ी हुई) नायिकाके दृष्टिपातको लेते हुए डरे हुए-से होकर मन्द प्रकाशवाले आकाशमें पहुँच गये ॥ २६ ॥