किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 437, कुल 707 में से
संदर्भ में पढ़ेंनवमः सर्गः १७९
सान्द्रतेति विरोधात् कान्तदन्तच्छेद्यादिविशेषणगत्या सान्द्रत्वे हेतूक्त्या काव्यलिङ्गं तत्सङ्कीर्णा चोत्प्रेक्षा ॥ ६२ ॥
हिन्दी—मदिराका अधिक पान करनेसे लाक्षारागसे रहित होकर भी प्रियके दन्तक्षतके चिह्नकी शोभासे सम्पन्न, अप्सराके अधरपल्लवकी लाली अत्यन्त गाढ़ी हो गई ।
रागकान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु ।
सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥ ६३ ॥
मल्लि०—रागेति ॥ वनितानां सर्वगाऽपि सर्वाङ्गगताऽपि । 'अन्तात्यन्त-' इत्यादिना डः । मदश्री रागेण कान्तानि नयनानि येषु तेषु । विद्रुमवदरुणानि कपोलतलानि येषु तेषु । मुखेषु दर्पणेष्विव नितान्तं ददृशे । तेषां नयनादिनैर्मल्येन रागाभिव्यक्तिसंभवादिति भावः ! अत्र मदश्रीः सर्वगतापि मुखेष्वेव ददृश इति विरोधः । तस्य मुखविशेषणैः समाधानात् काव्यलिङ्गानुप्रणितो विरोधावदाभासो-ऽलङ्कारः । स चोपमया संसृज्यते ॥ ६३ ॥
हिन्दी - सुन्दरियोंके समस्त अङ्गोंमें प्राप्त मदकी शोभा रागसे सुन्दर नेत्रों-वाले, प्रवालके समान अरुण (लाल) कपोलोंसे युक्त मुखोंमें दर्पणोंके समान अधिक दिखाई पड़ी ।
बद्धकोपविकृतोरपि रामाश्चारुताभिमततामुपनिन्ये ।
वश्यतां मधुमदो दयितानामात्मवर्गहितमिच्छति सर्वः ॥ ६४ ॥
मल्लि०—बद्धेति ॥ बद्धा कोपेन विकृतिर्याभिस्तास्तथाभूता अपि रामाः कर्म चारुता तासां सौन्दर्यं कर्त्री अभिमततां प्रियवाल्लभ्यम् उपनिन्ये । सौन्दर्यं हि विकृतिमपि रोचयत इति भावः । मधुमदो दयितानां वश्यतां विधेयत्वमुपनिन्ये । तथाहि सर्व आत्मवर्गहितमिच्छति । ततश्चारुता स्त्रीत्वात् स्त्रीणामुपचकार । मधु-मदस्तु पुंस्त्वात् पुंसामिति युक्तमित्यर्थः । अत्र विकृता अप्यभिमताः कुपिता अपि वश्या इति विरोधस्य चारुतामदाभ्यां समाधानादुभयत्रापि विरोधाभासो भवन्नर्था-न्तरन्यासेन संसृज्यते ॥ ६४ ॥
हिन्दी—क्रोधसे कुछ विकार होनेपर भी सुन्दरियोंको सुन्दरताने नायकके प्रियभावको प्राप्त करा दिया । सभी अपने वर्गका हित चाहते हैं, अतः मदिराके मदने भी (पुरुष होनेसे) उन सुन्दरियोंको अपने पतिके वशमें कर दिया ।