किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 454, कुल 707 में से
संदर्भ में पढ़ें११६ किरातार्जुनीयम्
मल्लि०—अभिभवतीति। कदम्बवायौ कदम्बसंबन्धिनि मारुते मदमधुरे शिखण्डिनां निनादे च मनोऽभिभवति अभिहरति सति, जिष्णुर्जयनशीलोऽर्जुनो नतः पृथग्जन इव धृतेर्धैर्यान्न चचाल। वर्षा अपि तदुद्दीपनाव न शेकुरित्यर्थः। हि यस्मात्, महतां समाधिभङ्गो न सुकरः। न केनापि कर्तुं शक्यत इत्यर्थः ॥ २३ ॥
हिन्दी--कदम्ब वृक्षकी हवाके और मदसे मधुर मयूरोंकी आवाजके भी मनको हरण करनेपर जयशील अर्जुन साधारण पुरुषकी तरह धैर्यसे विचलित नहीं हुए, क्योंकि महापुरुषोंको समाधिका भङ्ग होना आसान नहीं है ॥ २३ ॥
धृतबिसवलयावलिर्वहन्ती कुमुदवनैकदुकूलमात्तबाणा।
शरदमलतले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥ २४ ॥
मल्लि०—धृतेति। बिसानि वलयानीव तेषामावलिर्धृता यया सा। कुमुदवनमेकं मुख्यं दुकूलमिव तद्वहन्ती। आत्ता गृहीता बाणा नीलझिण्टी यया सा आत्तबाणा, धृतशरा च 'गृह्णीयात्क्षत्रिया शरम्' इति स्मरणात्। 'बाणोक्ता नीलझिण्टी च' इति वैजयन्ती। शरदधूर्जायेव घनसमयेन वर्षर्तुना। वरेणेति शेषः। अमलतले निर्मलतले सरोजं पाणिरिव तस्मिन्। आललम्बे जगृहे। कर्मणि लिट्। वधूवरसमागभवदृतुसंधिशोभतेत्यर्थः। अत्र 'आत्तबाणा' इति झिण्टीशरयोरभेदाध्यवसायाच्छ्लेषमूलातिशयोक्तिरुपमाङ्गमित्यनयोः संकरः ॥ २४ ॥
हिन्दी--कङ्कणोंके समान मृणालदण्डोंको धारण करनेवाली, कुमुदवनको ही एक मुख्य दुकूलको धारण करती हुई नील झिण्टीको पहनती हुई शरत्को वधूकी तरह वर्षाऋतुरूप वरने निर्मल तलवाले हाथके समान कमलमें ग्रहण कर लिया ॥ २४ ॥
अथ ऋतुसन्धिं वर्णयति—
समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या।
श्रियमतिशायिनीं समेत्य जग्मुर्गुणमहतां महते गुणाय योगः ॥ २५ ॥
मल्लि०—समेतेति। समदशिखिरुतानि मत्तमयूरकूजितानि हंसनादैः समेत्य तथा कुमुदवनानि कदम्बपुष्पवृष्ट्या कदम्बपुष्पसंपदा समेत्य। अतिशयिनीमतिशायवतीं श्रियं जग्मुः। तथा हि—गुणमहतां गुणाधिकानां योगः परस्परसमागमो महते गुणायोत्कर्षाय भवतीति शेषः। अत्र त्रिपादां समालंकारः—'सा समानं'