किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 467, कुल 707 में से
संदर्भ में पढ़ेंदशमः सर्गः | २०९
है। भाग्यहीन पुरुष पाये हुए पदार्थोंका तिरस्कार करते हैं।' इस प्रकार किसी दूतीने अर्जुनको कहा ॥ ५१ ॥
सल्ललितचलितत्रिकाभिरामा शिरसिजसंयमनाकुलैकपाणिः ।
सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥ ५२ ॥
मल्लि०— सल्ललितेति । सल्ललितं सविलासं यथा तथा चलितेन विवर्त्तितेन त्रिकेण कटिभागेन । 'पृष्ठवंशाधरे त्रिकम्' इत्यमरः । अभिरामा । शिरसि जाताः शिरसिजाः । 'सप्तम्यां जनेर्डः' । 'अमूर्धमस्तकात्स्वाङ्गादकामे' इत्यलुक् । 'उपपदमतिङ्' इति समासः । एतेन मनसिजो व्याख्यातः । तेषां संयमने बन्धन आकुलो व्यग्र एकः पाणियस्याः सा । अपरा स्त्री सुरपतितनयेऽर्जुने । जेतुं जैत्रः । जेतृ-शब्दात्सञ्ज्ञातात् 'प्रज्ञादिभ्यश्च' इत्यण्प्रत्ययः । मनसिजस्य जैत्रः शरस्तं तथाभूतम् । विलोचनस्यार्द्धमेकदेशम् । कटाक्षमित्यर्थः । निरासे विससर्ज ॥ ५२ ॥
**हिन्दी—**विलासके साथ चले हुए कटिभागके कारण केशके बन्धनमें व्यग्र एक हाथवाली अन्य अप्सराने अर्जुनपर कामदेवके जयशील बाणरूप नेत्रका आधा भाग (कटाक्ष) छोड़ा ॥ ५२ ॥
कुसुमितमवलम्ब्य चूतमच्चैस्तनुरिभकुम्भपृथुस्तनानताङ्गी ।
तदभिमुखमनङ्गचापयष्टिविसृतगुणेव समुन्ननाम काचित् ॥ ५३ ॥
मल्लि०— कुसुमितमिति । इभकुम्भवत् पृथुभ्यां स्तनाभ्यामानतमङ्गं यस्याः सा । 'अङ्गगात्रकण्ठेभ्यश्च' इति ङीप् । काचित् तन्वङ्गी । 'वोतो गुणवचनात्' इति विकल्पात्र ङीष् । कुसुमितमुच्चैरून्नतं चूतमवलम्ब्य । अत एव चूतलतायोगाद्विसृतो विस्रस्तो गुणो ज्या यस्या सा । 'विसृतं विस्तृतं ततम्' इति, 'मोर्वी ज्या शिञ्जिनी गुणः' इति चामरः । अनङ्गचापयष्टिरिव । आकृष्टमुक्तेति भावः । तदभिमुखं समुन्ननाम समुज्जजृम्भे । अङ्गभङ्गं चकारेत्यर्थः ॥ ५३ ॥
**हिन्दी—**हाथीके मस्तकपिण्डोंके समान विशाल स्तनोंसे झुके हुए शरीरवाली किसी पतली अप्सराने खिली हुई आम्रलताका अवलम्बन कर विस्तृत प्रत्यञ्चावाली कामदेवकी खींचकर छोड़ी गई धनुर्यष्टिका समान अर्जुनके समक्ष अङ्गभङ्ग किया ॥ ५३ ॥
सरभसमवलम्ब्य नीलमन्त्या विगलितनीवि विलोलमन्तरीयम् ।
अभिपतितुमनाः ससाध्वसेन च्युतरशनागुणसंदितावदस्थे ॥ ५४ ॥
मल्लि०— सरभसमिति । अन्याऽपरा विगलितनीवि श्लथबन्धनमत एव
१४ कि०