किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 484, कुल 707 में से
संदर्भ में पढ़ें२२६ | किरातार्जुनीयम्
युक्तः प्रमाद्यसि, हितादपेतः परितप्यसे । यदि नेच्छात्मनः पीडा मा सञ्जि भवता जने ॥ २९ ॥
**मल्लि०—**युक्त इति । किंच, युक्तः, हितेनेति शेषः । हितेनेष्टेन युक्तः सन् प्रमाद्यसि प्रकर्षेण माद्यसि हृष्यसि । हितादपेतः परितप्यसे परितप्तो भवसि । तपेर्दैवादिकात्कर्तरि लट् । सत्यमेवं ततः किमत आह—यदीति । पीडा बाधः स्वस्य च नेष्टा यदि तर्हि भवता जने परस्मिन्नपि मा सञ्जि न सञ्ज्यताम् । सञ्जतेर्ण्यन्तात्कर्मणि लुङ् । आत्मदृष्टान्तेन परपीडातो निवर्त्तितव्यमित्यर्थः । पीडायाः परात्मनोः समत्वात् ॥ २९ ॥
हिन्दी—( हे वत्स ! ) हितसे युक्त होकर बहुत ही प्रसन्न होते हो, परन्तु हितसे रहित होकर सन्तप्त हो जाते हो, इसलिए तुम दुःख भोगना नहीं चाहते हो तो अन्य जनमें आसक्त मत बनो ॥ २९ ॥
अथ देहास्थैर्याश्रद्धया च परपीडा न कार्येत्याह—
जन्मिनोऽस्य स्थितिं विद्वाँल्लक्ष्मीमिव चलाचलाम् । भवान्मा स्म वधीन्न्याय्यं, न्यायाधारा हि साधवः ॥ ३० ॥
**मल्लि०--**जन्मिन इति । अस्य जन्मिन उत्पत्तिधर्मकस्य शरीरिणः । व्रीह्यादित्वादिनिः । स्थितिं लक्ष्मीमिव चलाचलां चञ्चलां जन्मधर्मत्वादेव चञ्चलामनित्यामित्यर्थः । चलतेः पचाद्यच् । ‘चरिचलिपत्तिवदीनां वा द्वित्वमभ्यासस्यात्वं सद्येति वक्तव्यम्’ इति द्वित्वः । अभ्यासस्यागागमश्च । विद्वान् । जानन्नित्यर्थः । ‘विदेः शतुर्वसुः’ इति वैकल्पिको वसुरादेशः । भवान् । न्यायादनपेतं न्याय्यम् । ‘धर्मपथ्यर्थन्यायादनपेते’ इति यत्प्रत्ययः । मा स्म वधीत् । मा नाशयदित्यर्थः । ‘स्मोत्तरे लङ् च’ इति लङ् । ‘लुङि च’ इति हनो वधादेशः । ‘शेषे प्रथमः’ इति प्रथमपुरुषः । हि यस्मात् साधवो न्यायाधारा न्यायावलम्बाः । बहुव्रीहिस्तत्पुरुषो वा । न्यायत्यागे साधुत्वमेव न स्यादिति भावः । ‘न्यायाचाराः’ इति पाठे न्यायमाचरन्तीति तथोक्ताः । कर्मण्यण् ॥ ३० ॥
**हिन्दी—**इस जन्मवाले ( प्राणी ) की स्थितिको लक्ष्मीकी तरह चञ्चल ( अस्थिर ) जानते हुए तुम न्याय्य ( न्यायसे युक्त ) विषयका नाश मत करो, क्योंकि सज्जनलोग न्यायका अवलम्बन करनेवाले होते हैं ॥ ३० ॥