किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 488, कुल 707 में से
संदर्भ में पढ़ें२३० | किरातार्जुनियम्
पदत्वं यत्स प्रसादो निगद्यते' । इति लक्षणात् । ओजस्वि समासभूयिष्ठम् । 'ओजः समासभूयस्त्वम्' इति शासनात् । गरीयोऽर्थभूयस्त्वपरिगतम् । न तु शब्दाडम्बरमात्रमित्यर्थः । लाघवान्वितं विस्तरदोषरहितम् । साकाङ्क्षम् आकाङ्क्षावतां कदम्बात्मकम् । न तु दशदाडिमादिवाक्यवदनाकाङ्क्षितमित्यर्थः । अनुपस्कारं अध्याहारदोषरहितम् । विष्वग्गति कृत्स्नार्थप्रतिपादकम् । न तु सावशेषार्थम् । अत एव निराकुलमसंकीर्णार्थम् ॥ ३८ ॥
हिन्दी—( हे महोदय ! ) प्रसिद्ध अर्थवाले पदोंसे रमणीय, प्रचुर समासोंयुक्त, प्रचुर अर्थोंवाला, विस्तर दोषसे रहित, आकाङ्क्षावाले पदोंसे सहित, अध्याहार दोषसे रहित और समस्त अर्थोंका प्रतिपादक ॥ ३८ ॥
न्यायनिर्णीतसारत्वान्निरपेक्षमिवागमे ।
अप्रकम्प्यतयाऽन्येषामाम्नायवचनोपमम् ॥ ३९ ॥
**मल्लि०—**न्यायेति । पुनः, न्यायेन युक्त्या निर्णीतसारत्वान्निर्णीततत्त्वार्थत्वाद्धेतोः, आगमे शास्त्रे विषये निरपेक्षं स्वतन्त्रमिव । युक्तिदाढर्यादेवं प्रतीयते वस्तुतस्तु शास्त्रसिद्धार्थमेवेति 'इव' शब्दार्थः । किञ्च, अन्येषां प्रतिवादिनाम् । अप्रकम्प्यतया अनुमानादिभिरबाध्यत्वात्प्रत्याख्याततया आम्नायवचनोपमम् । वेदवाक्यसदृशमित्यर्थः ॥ ३९ ॥
**हिन्दी—**युक्तिसे सारका निर्णय करनेसे शास्त्रके विषयमें अपेक्षा न रखनेवाला (स्वतन्त्रके समान ), अनुमान आदिसे बाध्य न होनेसे वेदवाक्यके समान। ३९॥
अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूजितम् ।
औदार्यादर्थसंपत्तेः शान्तं चित्तमृषेरिव ॥ ४० ॥
**मल्लि०—**अलङ्घ्यत्वादिति । अन्यैर्जनैरलङ्घ्यत्वाद् अनुल्लङ्घनीयत्वात् । क्षुभितोदन्वदूजितम् उद्वेलार्णवोद्गम्भीरम् । औदार्याद्युक्तिविशेषत्वात् । श्लाघ्यविशेषणत्वाद्वा । तदुक्तं दण्डिना—'उत्कर्षवान्गुणः कश्चिदुक्ते यस्मिन्प्रतीयते । तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः । श्लाघ्यैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते ॥' इति अग्राम्यार्थत्वात्' इति केचित् । अन्यत्र—त्यागित्वादित्यर्थः । अर्थसंपत्तेः प्रयोजनसंपत्तेः अन्यत्र—अणिमादिसमृद्धेः ऋषेर्मुनेश्चित्तमिव शान्तं सौम्यम् ॥ ४० ॥
**हिन्दी—**अन्य जनोंसे लंघनीय न होनेसे क्षुब्ध समुद्रके समान गम्भीर, युक्ति विशेष और प्रयोजन सम्पत्तिके कारण ऋषिके चित्तके समान सौम्य ॥ ४० ॥