किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 493, कुल 707 में से
संदर्भ में पढ़ेंएकादशः सर्गः | २३५
अथातिदुःसहनिकारान्तरमाह--
उपाधत्त सपत्नेषु कृष्णाया गुरुसन्निधौ।
भावमानयने सत्याः सत्यङ्कारमिवान्तकः ॥ ५० ॥
मल्लि०— उपाधत्तेति। अन्तको मृत्युः गुरुसंनिधौ भीष्मद्रोणादिसमक्षमेव सत्याः पतिव्रतायाः कृष्णाया द्रौपद्या आनयने केशाम्बरादिकर्षणे भावं चित्ताभिप्रायमितः परमेनैन पाण्डवाभिभवेनैतान् स्वनगरं नेष्यामोत्येवंभूतं सत्यङ्कारमिव। क्रियऽनेनेति कारः। करणे घञ्। सत्यस्य कारः सत्यङ्कारः सत्यापन्नम्। चिकीर्षितस्य कार्यस्यावश्यं क्रियास्र्वापनार्थं परहस्ते यद्दीयते स सत्यङ्कारः। क्रियादौ सत्यदाऽर्धाय प्राग्दीयमानो मूल्यैकदेशश्च। 'क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्'। इत्यमरः। 'कारे सत्यागदस्य' इति मुमागमः। तमिव, सपत्नेषूपाधत्त निहितवान्। तेषां विनाशकाले विपरीतबुद्धिमुत्पादितवानित्यर्थः ॥ ५० ॥
हिन्दी— यमराजने भीष्म और द्रोणाचार्य आदि गुरुजनोंके समीपमें ही पतिव्रता द्रौपदीको लानेपर चित्तके अभिप्रायको (कौरवोंको मैं अपने नगरमें पहुँचाऊँगा) ऐसा बयानेके समान धारण कर लिया ॥ ५० ॥
केनेयमाकृष्टा, सभ्यैर्वा किं कृतं तत्राह--
तामैक्षन्त क्षणं सभ्या दुःशासनपुरःसराम्।
अभिसायार्कमावृत्तां छायामिव महातरोः ॥ ५१ ॥
मल्लि०-- तामिति। दुःशासनः पुरःसरो यस्यास्तां तथोक्ताम्। दुःशासनेन सभां प्रत्याकृष्यमाणामित्यर्थः। 'अनुपसर्जनात्' इति न ङीप्। तां कृष्णां। सभायां साधवः सभ्याः। 'सभाया यः' इति यप्रत्ययः। अभिसायार्कं दिनान्तसूर्याभिमुख्यम्। स्थितस्येति शेषः। 'सायो नाशदिनान्तयोः' इति विश्वः। 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः। महातरोः संबन्धिनीम्, आवृत्तां छायामिव तां कृष्णां क्षणमैक्षन्त। न चिरं जुगुप्सितत्वात्। नापि किंचिद्व्याप्रियन्त माध्यस्थ्यभङ्गभयात्। ते स्वकर्त्तव्येषु साक्षित्वमात्रमास्थिता इत्यर्थः। अत्राकृष्यमाणायाः कृष्णायाः आक्रष्टारं प्रति पराङ्मुखत्वादावृत्तच्छायौपम्यम्। तथापि तां न मुञ्चतीति दुःशासनस्य तरुसाम्यम् ॥ ५१ ॥
हिन्दी— दुःशासनसे खींची गई द्रौपदीको सभासद् लोगोंने सूर्यके सम्मुख रहे हुए विशाल वृक्षकी विद्यमान छायाकी तरह कुछ समय तक देख लिया ॥ ५१ ॥