किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 542, कुल 707 में से
संदर्भ में पढ़ें| २८६ | किरातार्जुनीयम् |
|---|
ह्रेपयन्नहिमतेजसं त्विषा स त्वमित्थमुपपन्नपौरुषः ।
हर्तुमर्हसि वराहभेदिनं नैनमस्मदधिपस्य सायकम् ॥ ४१ ॥
**मल्लि०—**ह्रेपयन्निति । त्विषा तेजसा । अधिमतेजसमुष्णतेजसं ह्रेपयन् लज्जयन् उपपन्नपौरुषः संभावितपराक्रमः स प्रसिद्धस्त्वं वराहभेदिनं । कृतोपकारमित्यर्थः । एनं स्वत्करगतम् । अस्मदधिपस्य सायकं शरम् । इत्थं साहसेन हर्तुं नार्हसि ॥ ४१ ॥
हिन्दी—(हे महोदय !) अपने तेजसे सूर्यको लज्जित करते हुए पराक्रम-वाले प्रख्यात आप वराहको विद्ध करनेवाले हमारे स्वामीके इस बाणको साहस-पूर्वक हरण करनेके लिए योग्य नहीं हैं ॥ ४१ ॥
अनर्हत्वमेवाह—
स्मर्यते तनुभृतां सनातनं न्याय्यमाचरितमुत्तमैर्नृभिः ।
ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद तेन वर्त्मना ? ॥ ४२ ॥
**मल्लि०—**स्मर्यत इति । उत्तमैर्नृभिः सत्पुरुषैर्मन्वादिभिः । तनुभृतां शरीरिणां सनातनं नित्यं न्याय्यं न्यायादनपेतम्, आचरितमाचारः स्मर्यते । कर्तव्यतयेति शेषः । न त्वनाचार इत्यर्थः । अथाप्यनाचारेण दोषमाह—ध्वंसत इति । भवानिव दृश्यन्त इति भवादृशस्ततः सदाचारात् ध्वंसते भ्रश्यते यदि तया तेन वर्त्मना न्याय्यमार्गेण कः प्रयातु गच्छतु वद कथय । न कोऽपीत्यर्थः । तथा च सन्मार्ग एव शीलं कुर्या-दिति भावः ॥ ४२ ॥
हिन्दी—(हे महोदय !) सत्पुरुषोंने शरीर धारण करनेवाले मनुष्योंके लिए सनातन (नित्य) और न्यायपूर्ण आचरणका स्मरण किया है, आप-सरीखे पुरुष उस आचरणसे भ्रष्ट होंगे तो उस न्यायमार्गसे कौन चलेगा? कहिए ॥ ४२ ॥
आकुमारमुपदेष्टुमिच्छवः सन्निवृत्तिमपथान्महापदः ।
योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥ ४३ ॥
**मल्लि०—**आकुमारमिति । किंच, योगशक्त्याऽऽत्मज्ञानमहिम्ना जितौ जन्म-मृत्यू यैस्ते यतयो योगिनः । आकुमारेभ्य आकुमारम् । कुमारादारभ्येत्यर्थः । 'आङ् मर्यादाभिविध्योः' इत्यव्ययीभावः । महत्य आपदो यस्मिंस्तस्माद् महापद्ः । महा-नर्थहेतोरित्यर्थः । अपथात् अमार्गात् । 'पथो विभाषा' इति निषेधविकल्पात्समासा-न्तः । 'अपथं नपुंसकम्' । संनिवृत्तिमपगमम्, उपदेष्टुमिच्छवः । सन्तः सुशीलतां