किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 567, कुल 707 में से
संदर्भ में पढ़ेंचतुर्दशः सर्गः ३१९
तर्हि नीचे कीदृशी वृत्तिरित्याशङ्क्य सोपपत्तिकमाह—
यदा विगृह्णाति हतं तदा यशः, करोति मैत्रीमथ दूषिता गुणाः ।
स्थितिं समीक्ष्योभयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्जनम् ॥ २४ ॥
मल्लि०— यदेति । यदा विगृह्णाति विरुणद्धि । पृथग्जनेनेति शेषः । तदा यशो हतं नाशितं भवेत् । अथ मैत्रीं करोति तदा गुणा दूषिताः । भवेयुरिति शेषः । इति उभयथा स्थितिं समीक्ष्य प्रतर्व्य विमृश्य, परीक्षको विवेचकः पृथग्जनं नोच-जनम्, अवज्ञयाऽनादरेण उपहतं तिरस्कृतं करोति । उपेक्षत इत्यर्थः ॥ २४ ॥
हिन्दी— कुलीन पुरुष जब नीच पुरुषसे विरोध करता है तो उसका यश नष्ट होता है, मित्रता करता है तो उसके गुण दूषित हो जाते हैं, दोनों ही प्रकारोंसे ऐसी स्थितिको देखकर परीक्षक (कुलीन पुरुष) नीचजनको अवज्ञासे तिरस्कृत करता है (उपेक्षा कर देता है) ॥ २४ ॥
उपसंहरन्नाह—
मया मृगान्धन्तुरनेन हेतुना विरुद्धमाक्षेपवचस्तितिक्षितम् ।
शरार्थमेष्यत्यथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज्जिघृक्षतः ॥ २५ ॥
मल्लि०— मयेति । अनेन हेतुना संधिविग्रहानर्हत्वेन कारणेन मया मृगान्धन्तु-र्व्याधस्य संबन्धि । हन्तेस्तृन्प्रत्ययः । अत एव 'न लोके—'त्यादिना षष्ठीप्रति-षेधः । विरुद्धमतिपरुषम, आक्षेपवचस्तिरस्कारवचनं तितिक्षितं सोढम् । ननु रुष्टयानङ्गीकारे बलाच्छरं ग्रहीष्यतीत्याशङ्क्याह—शरेति । अथ शरार्थमेष्यति दृष्टौ विषं यस्य तस्मात् दृष्टिविषात् सर्पविशेषात् शिरोमणिं जिघृक्षतो ग्रहीतुमिच्छतो गतिं दशां लप्स्यते प्राप्स्यति ॥ २५ ॥
हिन्दी— इस कारणसे मैंने व्याधसे कहे गये आक्षेपके वचनका सहन कर लिया है, अब वह बाणके लिए आयेगा तो सर्पके शिरोरत्न लेना चाहनेवालेकी दशाको प्राप्त कर लेगा ॥ २५ ॥
इतीरिताकूतमनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा ।
ययौ समीपं ध्वजिनीमुपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ॥ २६ ॥
मल्लि०— इतीति । इतीत्थम्, ईरिताकूतमुक्तऽभिप्रायम्, अनीलवाजिनं श्वेता-श्वमर्जुनं दूतो जयाय तेजसा प्रतापेन प्रतितर्ज्य । अस्मानजित्वा क्व गमिष्यसीति भीषयित्वेत्यर्थः । ध्वजिनीमुपेयुषः सेनासंनिकटस्य प्रसन्नरूपस्य । अर्जुनं प्रतीति शेषः । विरूपचक्षुषस्त्र्यम्बकस्य समीपं ययौ ॥ २६ ॥