भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 575, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 575

चतुर्दशः सर्गः ३१९

सिद्धयो महोदयानामपि महानुभावानामपि । सङ्घेन वृत्तिश्शरीरो येषां तेषां भाव- स्तत्ता तां सङ्घ-वृत्तितां संभूयकारितां प्रदिशन्ति । अतो गणानामपि संभूयकारित्वं न दोष इति भावः ॥ ४४ ॥ हिन्दी — उसके बाद दूसरेकी शक्तिको सहारा चाहनेवाले उन प्रमथोंने अर्जुन- पर एक-ही बार प्रहार किया, क्योंकि सहायसे होनेवाली कार्य सिद्धियाँ महानुभावों को भी-समुदायसे कार्य करनेका उपदेश देती हैं ॥ ४४ ॥

किरातसैन्यादुरुचापचोदिताः समं समुत्पेतुरुपात्तरंहसः । महावनादुन्मनसः खगा इव प्रवृत्तपत्रध्वनयः शिलीमुखाः ॥ ४५ ॥ मल्लि० — किरातेति । उरुभिर्वृहद्भिश्वापैर्नोदिताः प्रक्षिप्ता उपात्तरंहसः प्राप्त- वेगाः प्रवृत्तपत्रध्वनयः संजातपक्षस्वनाः शिलीमुखा बाणाः । महावनादुन्मनसः क्वापि गन्तुमुत्सुकाः । तथा, उक्तविशेषणविशिष्टाश्च खगाः पक्षिण इव । किरात- सैन्यात् समं समन्ततः समुत्पेतुः ॥ ४५ ॥ हिन्दी — विशाल धनुषोंसे प्रेरित, वेगको प्राप्त करनेवाले, पंखकी आवाजवाले बाण विशाल वनसे कहीं भी जानेके लिए उत्सुक होकर पक्षियोंकी तरह किरातों- की सेनासे एक-ही बार चारों ओर छूट गये ॥ ४५ ॥

गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैरुच्छ्रमितेन सानुषु । धनुर्निनादेन जवादुपेयुषा विभिद्यमाना इव दध्वनुर्दिशः ॥ ४६ ॥ मल्लि० — गभीरेति । गभीररन्ध्रेषु गम्भीरगह्वरेषु महीभृतः सानुषु ये प्रति- स्वनास्तैर्भृशमुन्नमितेनोत्थापितेन दीर्घीकृतेन जवादुपेयुषा प्राप्नुवता धनुषा निनादेन दिशो विभिद्यमाना विदार्यमाणा इव दध्वनुर्ध्वनिं चक्रुः ॥ ४६ ॥ हिन्दी — गहरा गुफाओंमें, पर्वतकी समतल जमीनोंमें प्रतिध्वनिसे अतिशय दीर्घ किये गये और वेगसे प्राप्त होनेवाले धनुकी आवाजसे दिशाएँ विशीर्णका -गई-सी होकर आवाज करने लगीं ॥ ४६ ॥

विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा । यहायसो वृष्टिरिवानिलेरिता रवं वितेने गणमार्गणावलिः ॥ ४७ ॥ मल्लि० — विधूनयन्तीति । भूरुहां गहनानि वनानि । 'अटव्यरण्यं विपिनं गहनं काननं वनम्' । इत्यमरः । विधूनयन्ती कम्पयन्ती तिरोहितानि छादितानि उपान्तानि प्रान्तानि नभोऽन्तरिक्षं दिगन्तराणि च यया सा । गणमार्गणावलिः

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 575, कुल 707 में से · BharatKosha