किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 593, कुल 707 में से
संदर्भ में पढ़ेंपञ्चदशः सर्गः ३३७
म्नान् प्राप्तांस्तथा अरातिना दृष्टपृष्ठान् । पलायमानानित्यर्थः । वो युष्मान् व्युता- चारान् स्खलितव्रतान् दारान् कलत्राणीव । 'अथ पुंभूम्नि दाराः' इत्यमरः । निगोपितुं गोप्तुम् । ऊदित्वानिङ्विकल्पः । दारदोषं भर्तेव स्वमहिम्ना युष्मद्दोषं संवर्तितुम् । इच्छति । अतः कुतो युष्माकमनर्थ इत्यर्थः ॥ १९ ॥
हिन्दी—ये स्वामी शिवजो नपुंसकत्वको प्राप्त ( पुरुषार्थहीन ) और शत्रुने जिनकी पीठ देख ली है ( भागते हुए ) तुमलोगोंको पत्नीकी तरह रक्षा करना चाहते हैं ( तुम्हारे दोषोंको छिपाना चाहते हैं ) ॥ १९ ॥
ननु हो मथना राधो घोरा नाथमहो नु न । तयदातवदा भीमा माभीदा बत दायत ॥ २० ॥
( प्रतिलोमानुलोमार्धः )
मल्लि०—नन्विति । 'ननु' इत्यामन्त्रणे । 'हो' इत्याह्वाने । 'हे है भोस्तो समस्तो च हृतसंबोधनार्थयोः । हो हो चैवंविधो ज्ञेयो संबुद्ध्याह्वानयोरपि' । इति विश्वः । मथन्तीति मथनाः । 'मन्थ विलोडने' कर्तरि ल्युट् । राधन्ति = समर्था भवन्तीति राधः । 'राधू सामर्थ्ये, क्विप् । घोरा क्रूराः । शत्रूणामिति भावः । नाथ महयन्ति पूजयन्तीति नाथमहः । दृशिग्रहणात्कर्मण्यपपदे क्विप् । तयन्ति=रक्ष- न्तीति तया रक्षकाः । पचाद्यच् । दायन्तीति दाताः = शुद्धाः । 'दैप् शोधने' कर्तरि क्तः । वदन्तीति वदा वक्तारः । पचाद्यच् । तेषां द्वन्द्वः तयदातवदाः । भीमा भयंकराः । माभीः । नञर्थ'मा'शब्दस्य सुप्सुपेति समासः । तां ददतीति माभीदा अभयप्रदाः एवंविधा यूयमिति शेषः । 'बत' इति खेदे । बवयोरभेदः । न दायत नु न शुद्धाः किम् । 'नु' पृच्छायाम् । किंतु शुद्धा एव । न काकुरत्रानुसंधेया । 'दैप् शोधने' लोट्मध्यमपुरुषबहुवचनम् ॥ २० ॥
हिन्दी—हे सैनिको ! शत्रुओंको मथन करनेवाले, समर्थ, शत्रुओंके लिए क्रूर, अपने स्वामीकी पूजा करनेवाले, रक्षा करनेवाले, शुद्ध, वक्ता, भयङ्कर और अभयदान करनेवाले तुमलोग क्या शुद्ध नहीं हो ? ( शुद्ध ही हो ) । यह 'प्रति- लोमानुलोमार्ध' नामक चित्रकाव्यका उदाहरण है ॥ २० ॥
किं त्यक्तापास्तदेवत्वमानुष्यकपरिग्रहैः । ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मानिता ॥ २१ ॥
मल्लि०—किमिति । अपास्तोऽवधीरतो देवत्वमानुष्यकयोः परिग्रहः स्वीकारो
१२ कि०