भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 610, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 610

३५४ | किरातार्जुनीयम्

युधां युद्धानामभिज्ञाः । शिक्षिता इत्यर्थः । कृद्योगारकर्मणि षष्ठी । किंच, नभस्त-
च्छ्रायं पर्वतानामोन्नत्यम् । घञन्तेनोपसर्गस्य समासो नोपपदाद् घञ्प्रत्ययः । 'द्विषस्तथा
भुवोऽनुपसर्गे' इत्यत्रानुपसर्गे इति निषेधात् । आक्षिपन्तः प्रतिषेधयन्त इव स्थिताः
तथोन्नता इत्यर्थः । नागा गजा इह संग्रामे न क्रामन्ति न चरन्ति । यदा युद्धानभि-
ज्ञ्विति शेषः । एवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् । तथापि कथं मे शक्तिह्रासोऽग्रेऽपि
सर्वत्र तात्पर्यार्थः ॥ २ ॥

हिन्दी—इस युद्ध में मदोंके प्रवाहसे काले किये गये कपोलभागोंसे युक्त वीर पुरुषोंसे अधिरूढ़, युद्धभार धारण करनेमें सहिष्णु, युद्ध करनेमें शिक्षित पर्वतकी ऊँचाईको भी आक्षेप करते हुए, अर्थात् पर्वतके समान ऊँचे हाथी भी नहीं विचरण करते हैं ॥ २ ॥

विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा ।
महारथौघेन न संनिरुद्धा पयोदमन्द्रध्वनिना धरित्री ॥ ३ ॥

मल्लि०विचित्रयेति । विचित्रया नानावर्णया केतनानां रत्नानि तेषां भासा प्रभया भिन्नां संवलितां रवे रुचं कान्तिं चित्रयता विचित्रवर्णां कुर्वता इव स्थितेनेति केतनोन्नत्यनिमित्तेयमुत्प्रेक्षा । पयोदमन्द्रध्वनिना मेघगम्भीरघोषेण महतां रथानामोघेन समूहेन धरित्री न संनिरुद्धा नावृता ॥ ३ ॥

हिन्दी—अनेक वर्णोंवाली पताकाओंकी कान्तिसे मिश्रित, सूर्यकी कान्तिको विचित्र वर्णोंवाली करते हुएके समान स्थित मेघके समान गम्भीर शब्द करनेवाले विशाल रथोंके समूहसे पृथिवी भी आच्छादित नही है ॥ ३ ॥

समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति ।
विभिन्नमर्यादमिहातनोति नाश्वीयमाशा जलधेरिवाम्भः ॥ ४ ॥

मल्लि०समुल्लसदिति । इह = युद्धे प्रासाः = कुन्ताः । 'प्रासस्तु कुन्त-' इत्यमरः । ते महोर्मय इव तेषां मालाः समुल्लसन्त्यो यत्र तत् समुल्लसत्प्रासमहोर्मिमालम् । चामराणि फेना इव चामरफेनास्तेषां पङ्क्तयः परिस्फुरन्त्यश्चामरफेनपङ्क्तयो यत्र तत्तथोक्तम् । अश्वीयमश्वसमूहः । 'बृन्दे त्वश्वीयमाश्ववत्' इत्यमरः । जलधेरम्भ इव विभिन्नमर्यादमुन्मर्यादमुच्छृङ्खलं यथा तथा, आशा दिशो नातनोति = नावृणोति ॥ ४ ॥