किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 613, कुल 707 में से
संदर्भ में पढ़ेंषोडशः सर्गः ३१७
लम् । 'धारासम्पात आसार' इत्यमरः । करिणां शीकर एव अम्भः कर्तृ मुहुर्नो- च्छिनत्ति = न नाशयति ॥ ९ ॥
हिन्दी — इस युद्धमें कीर्त्ति और युद्धार्थमें लोलुप अत एव शत्रुओंसे छातीमें विद्ध सैनिकोंके मूर्च्छास्वरूप युद्धके विघ्नको वर्षाऋतुके मूसलधार जलके समान शीतल हाथियोंके जलकण भी बारंबार नष्ट नहीं कर रहे हैं ॥ ९ ॥
असृङ्नदीनामुपचीयमानेविदारयद्भिः पदवीं ध्वजिन्याः । उच्छ्रायमायान्ति न शोणितौधैः पङ्कैरिवाश्यानघनैस्तटानि ॥ १० ॥
मल्लि० — असृगिति । असृङ्नदीनां तटान्युपचीयमानेरुपचयं नेयमानेरुदयो ध्वजिन्याः पदवीं विदारयद्भिर्दुःसंचारां कुर्वद्भिः । 'विदूरयद्भिः' इति पाठे विदूरां दूरसंचारां कुर्वद्भिः । आश्याना = ईषच्छुष्काः । 'संयोगादेरातो धातोर्यण्वतः' इति श्यायतेर्निष्ठानत्वम् । घनाः = सान्द्रास्तैः । आश्यानघनैः = शोणितौघैः पङ्कैरिवोच्छ्रायं वृद्धिं नायान्ति = न प्राप्नुवन्ति ॥ १० ॥
हिन्दी — इस युद्धमें रुधिरोंकी नदियोंके तट भी वृद्धिको प्राप्त किये जाते हुए तथा सेना (फौज) के मार्गको दुर्गम करते हुए कुछ सूखे हुए घने कीचड़ोंके समान रुधिर समूहसे नहीं बढ़ रहे हैं ॥ १० ॥
परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशोता नभसः पतन्ती । नेह प्रमोहं प्रियसहसानां मन्दारमाला विरलीकरोति ॥ ११ ॥
मल्लि० — परोति । इह = रणे, दन्तिदन्तैर्गजदन्तैः, परिक्षते = ताडिते, वक्षसि नभसः पतन्ती प्रियाया अङ्क इव शीता = शीतला सुखकरी मन्दारमाला । सुरैर्मुक्तेति शेषः । प्रियं साहसं येषां तेषां प्रियसहसानाम् । यतो गजाभियायिनामिति भावः । प्रमोहं = प्रहारमूर्च्छा न विरलीकरोति = न मन्दीकरोति । नापनयतीति यावत् ॥ ११ ॥
हिन्दी — इस युद्धमें हाथियोंके दांतोंसे ताड़ित छातोपर आकाशसे गिरती हुई प्रियाकी गोदके समान शीतल मन्दार पुष्पोंकी माला साहसको प्रिय माननेवाले वीरोंको प्रहारसे हुई मूर्च्छाको मन्द भी नहीं करती हैं ॥ ११ ॥
निषादिसंनाहमणिप्रभोधे परीयमाणे करिशीकरेण । अर्कत्विषोन्मीलितमभ्युदेति न खण्डनाखण्डलकार्मुकम् ॥ १२ ॥