किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 624, कुल 707 में से
संदर्भ में पढ़ें३६८ किरातार्जुनीयम्
निःश्वासोंमें धूओंसे आच्छादित किरणसमूहवाले अत एव नेत्रोंको सुख देने वाले शरीरका धारण किया ॥ ३९ ॥
प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः।
निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ॥ ४० ॥
**मल्लि०—**प्रतप्तेति । प्राणहराणीक्षणानि येषां तेषां प्राणहरेक्षणाना = दृष्टिविषाणां सर्पविशेषाणां, लोचनेभ्यो नेत्रेभ्यः । 'लोचनं नयनं नेत्रम्' इत्यमरः। प्रतप्तं = यच्चामीकरं=सुवर्णं तद्वद्भासुरेण । 'भञ्जभासमिदो घुरच्' इति घुरच् प्रत्ययः । प्रकाशेन = तेजसा, दिशः पिशङ्गयन्त्यो ज्वाला = महोल्का इव निश्चक्रमुर्निर्जग्मुः ॥ ४० ॥
**हिन्दी—**प्राणहरण करनेवाले नेत्रोंसे युक्त सर्पोंके नेत्रोंसे प्रतप्त सुवर्णके समान उज्ज्वल प्रकाशसे दिशाओंको पीली करती हुई ज्वालाएँ महती उल्काओंके समान निकल गईं ॥ ४० ॥
आक्षिप्तसंपातमपेतशोभमुद्दर्चि धूमाकुलदिग्विभागम् ।
वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ॥ ४१ ॥
**मल्लि०—**आक्षिप्तेति । आक्षिप्तः प्रतिषिद्धः=संपातः = संचारो यस्मिंस्तत् । सिद्धानां = पक्षिणां चेति शेषः । अपेता = गता शोभा यस्मात्तत् अपेतशोभं = गतश्रीकम् । उद्गतः प्रदीप्तो वह्निर्यस्मिंस्तत् उद्दर्चि सर्वत उद्भूतदहनम् । धूमाकुला व्याप्ता दिग्विभागा दिगन्ता यस्मिंस्तत् । भोगिकुलैः = सर्पकुलैर्वृतमावृतं नभः, परोपरुद्धस्य=शत्रुवेष्टितस्य, पुरस्यावस्थामिव, अवस्थां=दशां, भेजे । उक्तरीत्या तत्साम्यं प्राप्तमित्यर्थः । निदर्शनालङ्कारः ॥ ४१ ॥
**हिन्दी—**रुकी हुई गतिवाले, शोभासे रहित, प्रदीप्त अग्निवाले, धूओंसे व्याप्त दिग्विभागसे युक्त सर्प समूहसे आच्छादित आकाशने शत्रुसे घिरे हुए नगरकी अवस्थाकी समान दशाको प्राप्त किया ॥ ४१ ॥
तमाशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्योदयकारणेन ।
नेता नयेनेव परोपजापं निवारयामास पतिः पशूनाम् ॥ ४२ ॥
**मल्लि०—**तमिति । पशूनां = पतिः शिवस्तां चक्षुःश्रवसां सर्पाणां समूहं तार्क्ष्योदयकारणेन = गरुडाविर्भावहेतुना, मन्त्रेण, नेता = नायको, नयेन = नीत्या