भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 631, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 631

षोडशः सर्गः ३७१

**मल्लि०—**जलोघेति । जलोघानामुदकप्रवाहाणां संमूर्च्छनेन = मेलनेन मूर्च्छितस्वनः = प्रवृद्धघोषः । 'मूर्च्छनं मेलने प्रोक्तं वृद्धौ मूर्च्छितमेव वा' । इति सज्जनः । प्रसक्तैः = संगतैर्विद्युतां = तडिल्लतानां लसितैः स्फुरणैरेधिता = वर्धिता द्युतिर्यस्य स धृतधूममण्डलो = जलाघातसंभृतधूमपटलः पावकः प्रशान्तिमेष्यन्, तत्र देशे भूयानिव बभूव । भूयस्तया स्थापित इवेत्युत्प्रेक्षा ॥ ५९ ॥

**हिन्दी—**जलप्रवाहके मिलनेसे बढ़े हुए शब्द वाला, मिली हुई बिजलीके स्फुरणोंसे बढ़ी हुई कान्तिसे युक्त, धूममण्डलका धारण किया हुआ अग्नि बुझनेके समयमें युद्धस्थलमें अधिकके समान प्रतीत होने लगा ॥ ५९ ॥

प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे ।
उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥ ६० ॥

**मल्लि०—**प्रवृद्धेति । प्रवृद्धानां सिन्धोः = समुद्रस्य ऊर्मीणां चया राशय इव स्थवीयसां स्थूलतराणां पयसां चयैः पूरैर्विभिन्ना विश्लेषिताः कृशानवोऽग्नय उपात्तसंध्यारुचिभिः प्राप्तसंध्यारागैः पयोदानां विच्छिद्यन्त इति विच्छेदा विच्छिन्ना विक्षिप्ता ये लवाः शकलास्तैः सरूपतां = समानरूपतां प्रपेदिर इत्युपमा ॥ ६० ॥

**हिन्दी—**समुद्रकी बढ़ी हुई तरङ्गोंके समूहके समान बड़े बड़े जलसमूहके प्रवाहोसे विश्लेषित अग्निसमूहने सन्ध्याकी लालीको प्राप्त मेघोंके विच्छिन्न खण्डोंके समान रूपको प्राप्त किया ॥ ६० ॥

उपेत्यनन्तद्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय संक्षयम् ।
तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥६१॥

**मल्लि०—**उपेतीति । अनन्तद्युतिर्महातेजा अपि विभिन्नमूलो = नष्टमूलोऽसंशयं यथा तथाऽनुदयाय = पुनरनुत्थानाय संक्षयं = नाशम् । उपैति । तथा हि—तोयौघैर्विभिन्ना संहतिः संघातो यस्य स तथोक्तः हव्यवाहोऽग्निः पराभवं = नाशं प्रययौ । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६१ ॥

**हिन्दी—**जैसे तेजस्वी पुरुष भी मूलके नष्ट होनेपर निश्चय ही फिर उत्थान न होनेके लिए नाशको प्राप्त होता है वैसे ही जलसमूहसे विश्लिष्ट समूहवाला अग्नि नष्ट हो गया ( अर्थात् बुझ गया ) ॥ ६१ ॥

अथ विहितविधेयेराशु मुक्ता विताने-
रसितनगनितम्बश्यामभासां घनानाम् ।