किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 650, कुल 707 में से
संदर्भ में पढ़ें| ३९४ | किरातार्जुनीयम् |
|---|
मल्लि०—पाश्चादिति । तदानीं भर्तुः स्वामिनः । कर्तरि षष्ठी । पश्चात्क्रिया पृष्ठतः करणं तूणयुगस्योपकारिणीव उपकारिकेव जज्ञे । जाता । तथा हि—संभावनायां स्वयोग्यतायाम् । अधरीकृतायामफलीकृतायां पत्युः स्वामिनः पुरोऽग्र आसितव्यमासितं स्थितिः । बहुलग्रहणाद्भावे तव्यप्रत्ययः । साहसं न क्षमं न योग्यम् भर्त्रा संभावितस्यावसरेऽनुपकर्तुरनुजीविनस्तत्साम्मुख्यमनुचितमित्यर्थः ॥ ४२ ॥
हिन्दी—उस समय स्वामी (अर्जुन) को पीछे रखना तरकशोंके लिए उपकारके समान हो गया क्योंकि अपनी योग्यताके निष्फल होनेपर स्वामीके आगे रहना ऐसा साहसयोग्य नहीं होता है ॥ ४२ ॥
तं शंभुराक्षिप्तमहेषुजालं लोहैः शरैर्मर्मसु निस्तुतोद ।
हतोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर्गुरुभिर्विपक्षम् ॥ ४३ ॥
मल्लि०—तमिति । शंभुराक्षिप्तानि आाहतानि महेषुजालानि यस्य तं मुनिं तत्त्वविचारमध्ये वादमध्ये हतोत्तरं निरुत्तरीकृतं विपक्षं प्रतिवादिनं वक्ता वादी गुरुभिर्दोषैर्निग्रहस्थानैरिव लोहैर्लोहमयैः शरैर्मर्मसु निस्तुतोद व्यथयामास ॥ ४३ ॥
हिन्दी—शिवजीने महान् बाणसमूहसे ताडित अर्जुनको तत्त्व विचारके बीच-में प्रतिवादीको निग्रह-स्थानरूप दोषोंसे निरुत्तर कर देता है उसी तरह लोहमय बाणोंसे मर्मस्थानोंमें पीड़ित कर दिया ॥ ४३ ॥
जहार चास्मादचिरेण वर्म ज्वलन्मणियोतितहैमलेखम् ।
चण्डः पतङ्गान्मरुदेकनीलं तडित्वतः खण्डमिवाम्बुदस्य ॥ ४४ ॥
मल्लि०—जहारेति । किञ्च, अस्मान्मुनेः । अचिरेण शीघ्रं ज्वलद्भिर्मणिभिर्द्योतिता हैम्यः सौवर्ण्यो लेखा यस्य तत्तथोक्तं वर्म कवचम् । चण्डो मरुत् पवनः पतङ्गात् सूर्यात् । एकनीलं केवलकृष्णवर्णम् । 'एके मुख्यान्यकेवलाः' इत्यमरः । तडित्वतस्तडिद्युक्तस्याम्बुदस्य खण्डमिव जहार । तदा भगवन्मायया मुक्तकञ्चुको मुनिर्मेघनिर्मुक्तः सूर्य इव दिदीपे इति भावः ॥ ४४ ॥
हिन्दी—फिर शिवजीने उस मुनि (अर्जुन) के सुप्रदीप्त रत्नोंकी कान्तिसे चमकती हुई सुवर्ण रेखावाले कवचको जैसे प्रचण्ड वायु सूर्यसे बिजलीसे युक्त केवल कृष्णवर्णवाले मेघके खण्डको दूर कर देता है उसी तरह दूर कर दिया ॥ ४४ ॥