भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 666, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 666
४१०किरातार्जुनीयम्

किङ्किण्यो येषां ते । पतन्तो धावन्तो हंसाः प्रयत्नेन विकीर्यमाणविक्षिप्यमाणैः अग्रपक्षैः पक्षाग्रैः । व्योम्नः परिष्वङ्गमलिङ्गनं चक्रुरिवेत्युत्प्रेक्षा ॥ १९ ॥

हिन्दी--विमानोंको ढोनेवाले, आवाज करनेवाली किङ्किणियोंसे युक्त बड़े-बड़े हंस उड़ते हुए हंस प्रयत्नसे फैलाये जानेवाले पंखोंके अग्रभागोंसे आकाशका आलिङ्गन कर रहे हैं क्या ? ऐसी प्रतीति हो रही थी ॥ १९ ॥

मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य संतानिकीः । जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरम् ॥ २० ॥

मल्लि०--मुदितेति । अथ मरुद्वायुः जलदे मेघ इव वृषे निषेदिवांसमुपविष्टमीश्वरं मुदिता मधुलिहो भृङ्गा याभिस्ता वितानीकृता उल्लोचाकाराः कृताः । 'अस्त्री वितानमुल्लोचः' इत्यमरः । सांतनिकीः संतानकुसुमविकाराः स्रजः मन्दारमाला इत्यर्थः । 'संतान' शब्दाद्विकारार्थे ठक् । 'संतानः कल्पवृक्षश्च' इत्यमरः । उपरि वितत्य विस्तार्य । उपसुखयांबभूव प्रह्लादयामास ॥ २० ॥

हिन्दी--तब वायुने मेघके समान बैलपर चढ़े हुए शिवजीको भौरोंको प्रसन्न करनेवाली, चंदर्वाके समान की गई, सन्तान वृक्षके फूलोंकी मालाओंको फैलाकर प्रसन्न किया ॥ २० ॥

कृतधृति परिवन्दितेनोच्चकैर्गणपतिभिरभिन्नरोमोद्गमैः । तपसि कृतफले फलज्यायसी स्तुतिरिति जगदे हरेः सूनुना ॥ २१ ॥

मल्लि०-कृतधृतीति । अभिन्नरोमोद्गमैरविरलरोमाञ्चैर्गणपतिभिः प्रमथमुख्यैरुच्चकैः परिवन्दितेन साधु साधु इति संस्तुतेन । 'वदि अभिवादनस्तुत्योः' । कर्मणि क्तः । हरेः सूनुनाऽर्जुनेन तपसि कृतं फलं भगवत्साक्षात्कारलक्षणं येन तस्मिन् । कृतफले सतीत्यर्थः । कृतधृति कृतसंतोषं यथा तथा फलज्यायसी फलाधिकेति वक्ष्यमाणा स्तुतिर्जगदे कथिता ॥ २१ ॥

हिन्दी-अविरल रोमाञ्चोंसे युक्त मुख्य प्रमथोंसे उच्च स्वरसे स्तुति किये गये अर्जुन तपस्यामें फलके उत्पन्न होनेपर सन्तोषकर फलसे अधिक स्तुति करने लगे ॥ २१ ॥

शरणं भवन्तमतिकारुणिकं भव भक्तिगम्यमधिगम्य जनाः । जितमृत्यवोऽजित ! भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥२२॥