किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 669, कुल 707 में से
संदर्भ में पढ़ेंअष्टादशः सर्गः ४१९
चित्तभेदो बुद्धिवैषम्यं नास्ति । स्वकर्मणैव जन्तुस्तरति पतति वा । त्वं साक्षितया सर्वत्र सम इत्यर्थः ॥ २६ ॥
हिन्दी— हे वरद ! आपमें प्रीति करनेवाला पुरुष निर्मल पद ( मोक्ष ) को प्राप्त करता है । इसके विपरीत आपसे द्वेष करनेवाला पुरुष तीव्र नरकको प्राप्त करता है । हे निष्कलङ्क ! यह दुस्तर निमित्तशक्ति आपकी कहीं ( अपने भक्तमें वा अपने द्वेषी जनमें ) भी बुद्धिकी विषमता नहीं है ॥ २६ ॥
दक्षिणां प्रणतदक्षिणमूर्ति तत्त्वतः शिवकरीमविदित्वा ।
रागिणापि विहिता तव भक्त्या संस्मृतिर्भव भवत्यभवाय ॥ २७ ॥
मल्लि०— दक्षिणामिति । हे भव ! प्रणतदक्षिण ! प्रणतेषु दाक्षिण्यसंपन्न ! दाक्षिण्यं परच्छन्दानुवर्तित्वम् । 'दक्षिणः सरलावामपरच्छन्दानुवर्तिषु' । इति विश्वः । शिवकरीं श्रेयस्करीम् । 'कृञो हेतु-' इत्यादिना टप्रत्यये ङीप् । तव दक्षिणां मूर्तिं तत्त्वतो याथार्थ्येन अविदित्वापि रागिणा रागद्वेषवतापि भक्त्या विहिता तव संस्मृतिः सम्यक्स्मरणमभवाय संसारनिवृत्तये । प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते । भवति । तत्त्वज्ञानं विनापि भक्तिपूर्विका तव संस्मृतिरेव मुक्तिनिदानमित्यर्थः । स्वागता वृत्तम् ॥ २७ ॥
हिन्दी— हे भक्तोंमें उदार ! हे शिवजी ! कल्याण करनेवाली आपकी दक्षिणामूर्तिको यथार्थरूपसे न जानकर भी रागद्वेष करनेवाले पुरुषसे भी भक्तिसे किया गया आपका संस्मरण संसारकी निवृत्तिके लिए ( मोक्ष प्राप्तिके लिए ) हो जाता है ॥ २७ ॥
दृष्ट्वा दृश्यान्याचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तमपायैः ।
सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां यश्चोपास्ते साधु विधेयं स विधत्ते ॥
मल्लि०— दृष्ट्वेति । प्रेक्षया बुद्ध्या करोतीति प्रेक्षाकारी विमृश्यकारी दृश्यानि द्रष्टव्यानि दृष्ट्वा ज्ञात्वा आचरणीयानि कर्तव्यानि च विधाय कृत्वा, अपायैर्मुक्तं नाशवर्जितं पदं याति । 'अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते' । इति श्रुतेः । ज्ञानकर्मभ्यां मुक्तिरित्यर्थः । किन्तु ते अपि ज्ञानकर्मणी त्वद्विषय एव मुक्तिसाधनं नान्यविषय इत्याशयेनाह—सम्यगिति । यः पुमान् परं पुरुषोत्तमत्वेन सर्वोत्कृष्टं त्वां पश्यति तस्य सम्यग्दृष्टिः सम्यग्ज्ञानम् । यश्च त्वामुपास्ते सेवते स एव साधु विधेयं विधत्ते । साधुकारीत्यर्थः । मत्तमयूरं वृत्तम् । लक्षणं तूक्तम् । २८ ।