भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 672, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 672

४१६ किरातार्जुनीयम्

अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः। तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥३३॥

मल्लि०—अविग्रहस्येति। अविग्रहस्य वस्तुतोऽशरीरस्यापि सतोऽतुलेन दुर्बोधत्वादसदृशेन हेतुना। केनापि कारणेनेत्यर्थः। समेता संगता भिन्ना विलक्षणा च द्वयी द्विविधा स्त्रीपुंमात्मिका मूर्तिर्यस्मिन्कर्मणि तत् समेतभिन्नद्वयमूर्ति यथा तथा तिष्ठतः। अशरीरस्य शरीरमेव विरुद्धम्, तदपि नारीनरत्मकमिति कियताद्वित्रमस्तीति भावः। एवंविधस्य तवैव जगत्सु विरुद्धे वेषाभरणे पूर्वोक्ते यस्य तस्य विरुद्धवेषाभरणस्यापि सतः कान्ता रमणीयता दृश्यते। अन्यस्य न दृश्यते। तस्मादचिन्त्योऽसौ तव महिमेति भावः ॥ ३३ ॥

हिन्दी—वस्तुतः शरीरसे रहित होकर भी अनुपम कारणसे संगत विलक्षण स्त्री और पुरुषरूप दो मूर्तियोंसे रहनेवाले इस प्रकार लोकोंमें विरुद्ध वेष और आभरणवाले आपको ही रमणीयता देखी जा रही है ॥ ३३ ॥

आत्मलाभपरिणामनिरोधैर्भूतसङ्घ इव न त्वमुपेतः। तेन सर्वभुवनातिग लोके नोपमानमसि नाप्युपमेयः ॥ ३४ ॥

मल्लि०—आत्मति। हे देव! त्वं भूतसङ्घ इव शरीरादिसंघात इव आत्मलाभपरिणामनिरोधैर्जन्मजरामरणैः। उपेतो युक्तो नासि। तेन कारणेन हे सर्वभुवनातिग सर्वलोकोत्तर! उपमीयतेऽनेनेत्युपमानं नासि। उपमीयते यत्तदुपमेयमपि नासि। न कश्चित्त्वादृशोऽस्ति। त्वमपि नान्यसदृशः। अनन्यसाधारणत्वादित्यर्थः। वृत्तमुक्तम् ॥ ३४ ॥

हिन्दी—हे भगवन् ! आप शरीर आदिके समूहके समान जन्म, जरा (बुढापा) और मृत्युसे युक्त नहीं हैं, इस कारणसे सकल लोकोंका अतिक्रमण करनेवाले हे भगवन् ! आप लोकमें न उपमान-स्वरूप हैं और न तो उपमेयस्वरूप ही हैं ॥ ३४ ॥

त्वमन्तकः स्थावरजङ्गमानां, त्वया जगत्प्राणिति देव ! विश्वम्। त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानाम् ॥ ३५ ॥

मल्लि०—त्वमिति। हे देव! त्वंस्थावरजङ्गमानामन्तकः संहर्ता। त्वया हेतुना विश्वं सर्वं जगत् प्राणिति जीवति। त्वं योगिनां हेतुः प्रवर्तकं कर्म फलं भोगश्च ते हेतुफले रुणत्सि निवर्तयसि। तेषां त्वमेव बन्धविमोचक इत्यर्थः। किञ्च,

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 672, कुल 707 में से · BharatKosha