भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 7, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 7

भूमिका

शेषराजशर्मा रेग्मीः

महाकविर्भारविस्तत्काव्यं किरातार्जुनीयं च

संस्कृतभाषायां महाकविर्भारविरतिशयलोकप्रियः। बृहत्त्रय्यां किरातार्जुनीये, शिशुपालवधे नैषधीयचरिते च भारवे रचना गरिष्ठा, परवर्तिकवीनां पथप्रदर्शिका, मनोहरतमा, गाम्भीर्यरसपूरिता नारिकेलफलसम्मितेति च संस्तूयते। एवमेव परमप्रथितेषु पञ्चस्वपि काव्येषु—रघुवंश-कुमारसंभव-किरातार्जुनीय-शिशुपालवध-नैषधीयचरितेषु महाकविर्भारविः कालिदासकोटौ परिगणितः।

यथा—६३४तमे खृष्टाब्दे उत्कीर्णे ऐहोलशिलालेखे—
"स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः" १।

अस्य पद्यार्धस्य दर्शनात् खृष्टस्य चतुस्त्रिंशदधिकषट्शततम वर्षपूर्वं तत्समव-स्तावत् एव समयात् भारविः कालिदासकोटौ परिगणित आसीदित्यवगम्यते। 'भारवेरर्थगौरवम्' इत्यनुसारं भारविवाक्यमर्थगौरवपरिपूर्र्णं स्वल्पैरपि शब्दैर्विपुल-गूढार्थसंग्राहिकेति प्रतीयते। कालिदासापेक्षया आमुष्यांगुन एवेत्यस्पृष्टा स्वाधी, परं रसभाव-द्रव्यद्यलंकारगुणपरिपूर्र्णेति विमुक्तिः।

द्यूते पराजितं द्वैतवने भ्रातृभिर्भार्य्या च समं स्थितं युधिष्ठिरं दुर्योधनस्य शासनपद्धतेः परिज्ञानाऽर्थं प्रेषितो वर्णिनेषधारी वनेचरो दुर्योधनस्य शासनगुणवत्तां वर्णयति। श्रुत्वैऽतद् द्रौपदी युद्धार्थं युधिष्ठिरं प्रेरयति। भीमसेनोऽथ प्रकोपापूर्वकं तस्याः समर्थयत। अत्राऽन्तरे व्यास आगत्य युद्धे जयलाभाऽर्थमिन्द्रकीलके तपश्चरणार्थमर्जुने सविधि विद्यामुपदिशति। तस्मिन् पर्वते ध्यातो मार्गशीर्षषष्ठ्यां युद्धाऽर्थं गोपस्थापयति। अर्जुनं इन्द्रकीलपर्वतं गत्वा तपञ्चरति। मूकासुरोऽर्जुनं हन्तुं शूकरवेषेणागच्छति। किरातपतेः शिवस्याऽर्जुनस्य च युगपद्बाणाप्रहारेण निष्प्राणत्वेन स भूमि पतितः। तच्छरीररक्षणाऽह्वार्थं यतमानाऽर्जुनस्य किरातवेषधरस्य किरातस्य विवदते। अन्ततो गत्वा कात्तिकेयान्निषिद्धस्य विद्याया शोभनावेषया किरातपतेः शिवेण अर्जुनस्य च सर्वं सुयुद्धं युद्धं भवति। पराजितस्यार्जुनस्य


१ कि० सू०